________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 214 // परिमितदेशे लिङ्गोपलब्धेः, अग्न्योष्ण्यवत् इति गाथार्थः॥ व्याख्याता प्रथमा मूलद्वारगाथा, साम्प्रतं द्वितीया व्याख्यायते- चतुर्थमध्ययनं तत्र प्रथमं गुणीत्याद्यद्वारम्, तद्व्याचिख्यासयाऽऽह भाष्यकार: षड्जीव निकायम्, भा०- अहुणा गुणित्ति दारं होइ गुणेहिं गुणित्ति विन्नेओ। ते भोगजोगउवओगमाइ रूवाइ व घडस्स // 52 // सूत्रम् __ अधुना गुणीति द्वारं- तदेतद्व्याख्यायते, भवति गुणैर्हि गुणी, न तद्व्यतिरेकेण 'इति' एवं विज्ञेयः, अनेन गुणगुणिनो- षड्जीवनिकाय: भाष्यम् र्भेदाभेदमाह, ते भोगयोगोपयोगादयो गुणा इति, आदिशब्दादमूर्तत्वादिपरिग्रहः, निदर्शनमाह- रूपादय इव घटस्य गुणा |52-53 इति गाथार्थः॥ व्याख्यातं मूलद्वारगाथायां गुणिद्वारम्, अधुनोर्ध्वगतिद्वारावसर इत्याह भाष्यकार: देहव्यापित्वं गुणीद्वारं ___भा०- उटुंगइत्ति अहुणा अगुरुलहुत्ता सभावउडगई। दिटुंतलाउएणं एरंडफलाइएहिं च // 53 // उर्ध्वगतिद्वारं ऊर्ध्वगतिरित्यधुना द्वारं-तदेतद्व्याख्यायते, अगुरुलघुत्वात्कारणात्स्वभावतः कर्मविप्रमुक्तः सन्नूर्ध्वगतिः जीव इति गम्यते, च। यद्येवं तर्हि कथमधो गच्छति?, अत्राह- दृष्टान्तःअलाबुना तुम्बकेन, यथा तत्स्वभावत ऊर्ध्वगमनरूपमपि मृल्लेपाजलेऽधो भाष्यम् 54 निर्मयद्वारम्। गच्छति तदपगमादूर्ध्वमा जलान्ताद्, एवमात्माऽपि कर्मलेपादधोगच्छति तदपगमादूर्ध्वमा लोकान्तादिति / एरण्डफलादिभिश्चल दृष्टान्त इति, अनेन दृष्टान्तबाहुल्यं दर्शयति, यथा चैरण्डफलमपि बन्धनपरिभ्रष्टमूर्ध्वं गच्छति, आदिशब्दादग्न्यादिपरिग्रह इति गाथार्थः॥व्याख्यातं द्वितीयमूलद्वारगाथायामूर्ध्वगतिद्वारम्, साम्प्रतं निर्मयद्वारव्याचिख्यासयाऽऽहभा०- अमओय होइ जीवो कारणविरहा जहेव आगासं / समयंच होअनिच्चं मिम्मयघडतंतुमाईयं // 54 // / 214 // अमयश्च भवति जीवः, न किम्मयोऽपीत्यर्थः, कुत इत्याह- कारणविरहात् अकारणत्वात्, यथैवाकाशं- आकाशवदित्यर्थः, समयं च वस्तु भवत्यनित्यम्, एतदेव दर्शयति- मृन्मयघटतन्त्वादि, यथा मृन्मयो घटस्तन्तुमयः पट इत्यादि, न पुनरात्मा, नित्य