SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययन षड्जीव श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 211 // निकायम्, सूत्रम् 1 षड्जीवनिकायः नियुक्ति: 226 जीवनित्यत्वसिद्धिः। भवितृदेवदत्तवत्, नित्यत्वादमूर्तः, अमूर्तत्वाइहादन्य इति योजना सर्वत्र कार्या। तथा बालकृतानुस्मरणात् कृतशब्दोऽत्रानुभूतवचनः, ततश्च बालानुभूतानुस्मरणात्, तथा च बालेनानुभूतं वृद्धोऽप्यनुस्मरन् दृश्यते, नच अन्येनानुभूतमन्यः स्मरति अतिप्रसङ्गात्, नचेदमनुस्मरणंभ्रान्तम्, बाधाऽसिद्धेः, नच हेतुफलभावनिबन्धनमेतत्, निरन्वयक्षणविनाशपक्षेतस्यैवासिद्धेः, तोरनन्तरक्षणेऽभावापत्तेः, असतश्च सद्भावविरोधादिति प्रयोगार्थः, प्रयोगस्तु- अवस्थित आत्मा, पूर्वानुभूतार्थानुस्मरणात्, तदन्यैवंविधपुरुषवत् / उपस्थानादिति कर्मफलोपस्थानमत्र गृह्यते, यद्येनोपात्तं कर्म स एव तत्फलमुपभुङ्क्ते, अन्यश्च क्रियाकालोऽन्यश्च फलकालः, एकाधिकरणं चैतद्यम्, अन्यथा स्वकृतवेदनासिद्धेः, अन्यकृतान्योपभोगस्य निरुपपत्तिकत्वात्, कृतनाशाकृताभ्यागमप्रसङ्गात्, संतानपक्षेऽपि कर्तृभोक्तृसंतानिनो नात्वाविशेषात्, शक्तिभेदात्, तस्यैव तथाभावाभ्युपगमे नित्यत्वापत्तेरिति प्रयोगार्थः, प्रयोगश्च अवस्थित आत्मा, स्वकृतकर्मफलवेदनात्, कृषीवलादिवत् / श्रोत्रादिभिरग्रहणात् श्रोत्रादिभिरिन्द्रियैरपरिच्छित्तेः, न च श्रोत्रादिभिरपरिच्छिद्यमानस्य असत्त्वम्, अवग्रहादीनां स्वसंवेदनसिद्धत्वात्, बौद्धैरप्यतीन्द्रियज्ञानाभ्युपगमात्, ज्ञानस्य च गुणत्वात्, गुणस्य च गुणिनमन्तरेणाभावात्, प्राक्तनज्ञानस्यैव गुणित्वानुपपत्तेः, तस्यापि गुणत्वादिति प्रयोगार्थः, प्रयोगश्च-नित्य आत्मा, गुणित्वेसत्यतीन्द्रियत्वात्, आकाशवत्। तथा जातिस्मरणादिति, जातेरति न्तायाः स्मरणात्, न चेदमनुस्मरणमननुभूतस्यान्यानुभूतस्य च भवति, अतिप्रसङ्गात्, दृश्यते च क्वचिदिदम्, न चासो प्रतारकः, तत्कथितार्थसंवादनात्, अनुभवाविशेषे सर्वेषामेव कस्मान्न भवतीति चेद्, उच्यते, कर्मप्रतिबन्धाद् दृढानुभवाभावाद्, इह लोकेऽपि सर्वेषां सर्वत्रानुस्मरणादर्शनात्, न खलु इह लोके सर्वत्रानुस्मरणदर्शनम्, तद्वदिहापि, क्वचिजाती सर्वेषामस्त्विति चेन्न, नष्टचेतसां सर्वत्रानुस्मरणशून्येन व्यभिचारादिति प्रयोगार्थः, प्रयोगश्च बालकृतानुस्मरणवदृष्टव्य इति / 8 // 211 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy