SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 210 // भा०- हेउप्पभवो बंधो जम्माणंतरहयस्स नो जुत्तो। तज्जोगविरहओखलु चोराइघडाणुमाणाओ॥४६॥ चतुर्थमध्ययनं हेतुप्रभवो हेतुजन्मा बन्धो ज्ञानावरणादिपुद्गलयोगलक्षणः, जन्मानन्तरहतस्य उत्पत्त्यनन्तरविनष्टस्य न युक्तो न घटमानः षड्जीव * निकायम्, तद्योगविरहत इति तै:- बन्धहेतुभिर्मिथ्यादर्शनाविरतिप्रमादकषाययोगलक्षणैर्यो योगः- संबन्धस्तद्विरहतः- तदभावादेव, सूत्रम् खलुशब्दस्यावधारणार्थत्वात्, चौरादिघटानुमाना दित्यनुमानशब्दो दृष्टान्तवचनः, चौरादिघटादिदृष्टान्तात्, न हि उत्पत्त्यनन्तर- षड्जीवनिकायः विनाशी चौरश्चौर्यक्रियाभावेन बध्यते, स्थायी हि घटो जलादिना संयुज्यते इति व्यतिरेकार्थः, प्रयोगश्चात्र-न क्षणिक भाष्यम् 46 अन्यत्वादिआत्मा, बन्धप्रत्ययत्वाच्चौरवत्, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववदिति गाथार्थः // नियुक्तिगाथायां बन्धस्य प्रत्यया- द्वारत्रयम्। भावादिति व्याख्यातम्, अधुना 'विरुद्धस्य चार्थस्याप्रादुर्भावाविनाशाच्चे'ति व्याख्यायते भाष्यम् 47 नियुक्तिः भा०- अविणासी खलु जीवो विगारणुवलंभओजहागासं। उवलब्भंति विगारा कुंभाइविणासिदव्वाणं॥४७॥ 225-226 अविनाशी खलु जीवो, नित्य इत्यर्थः, कुत इत्याह विकारानुपलम्भात् घटादिविनाशे कपालादिवद्विशेषादर्शनाद्, जीवनित्यत्व सिद्धिः। यथाऽऽकाशं- आकाशवदित्यर्थः, एतदेव स्पष्टयति- उपलभ्यन्ते विकारा दृश्यन्ते कपालादयः कुम्भादिविनाशिद्रव्याणाम्, न चैवमत्रेत्यभिप्रायः, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववत्, इति गाथार्थः। प्रकृतसंबद्धामेव नियुक्तिगाथामाह नि०- निरामयामयभावा बालकयाणुसरणादुवत्थाणा। सुत्ताईहिं अगहणा जाईसरणा थणभिलासा // 226 // निरामयामयभावात् निरामयस्य-नीरोगस्याऽऽमयभावाद्-रोगोत्पत्तेः, उपलक्षणं चैतत् सामयनिरामयभावस्य, तथा चैवं // 210 // वक्तार उपलभ्यन्ते-पूर्व निरामयोऽहमासंसम्प्रति सामयोजातःसामयो वा निरामय इति, न चैतन्निरन्वयलक्षणविनाशिन्यात्मन्युपपद्यते, उत्पत्त्यनन्तराभावादिति प्रयोगार्थः, प्रयोगस्तु- अवस्थित आत्मा, अनेकावस्थानुभवनात्, बालकुमाराद्यवस्थानु
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy