________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 209 // भाष्यम 45 अन्यत्वादि लोके- नैनं छिन्दन्ति शस्त्राणी त्यादिवचनप्रामाण्यात् वेदे स एष अक्षयोऽज इत्यादिश्रुतिप्रामाण्यात् समये 'न प्रकृतिर्न चतुर्थमध्ययनं विकृतिः पुरुष' इति वचनप्रामाण्यात्, किमित्याह- नित्यो जीवः- अप्रच्युतानुत्पन्नस्थिरैकस्वभावः, एकान्तनित्य एव, न षड्जीव निकायम्, चैतन्याय्यम्, एकस्वभावतया संसरणादिव्यवहारोच्छेदप्रसङ्गादिति वक्ष्यति,अत आह-विभाषयाऽस्माकं विकल्पेन-भजनया सूत्रम् 1 स्यान्नित्य इत्यादिरूपया द्रव्यार्थादेशान्नित्यः पर्यायार्थादेशादनित्य इत्यर्थः, इतरथा यद्येवं नाभ्युपगम्यते ततः संसारादि षड्जीवनिकाय: संसारालोचनादि सर्वमेव न युज्यते तस्य आत्मनः, स्वभावान्तरानापत्त्या एकस्वभावतया वार्तमानिकभावातिरेकेण भावान्तरानापत्तेः, एवममूर्तत्वान्यत्वयोरपि विभाषा वेदितव्या, अन्यथा व्यवहाराभावप्रसङ्गात्, एकान्तामूर्तस्यैकान्तदेहभिन्नस्य द्वारत्रयम्। चातिपाताद्यसंभवादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रत्वात्प्रारम्भस्येति गाथार्थः / एवमन्यत्वादिद्वारत्रयं / व्याख्यायाधिकृतनियुक्तिगाथां व्याचिख्यासुराह भा०- कारणअविभागाओ कारणअविणासओ य जीवस्स। निच्चत्तं विन्नेयं आगासपडाणुमाणाओ॥४५॥ कारणाविभागात् पटादेस्तन्त्वादेरिव कारणविभागाभावादित्यर्थः, कारणाविनाशतश्च कारणाविनाशश्च कारणानामेवाभावात्, किमित्याह- जीवस्य आत्मनो नित्यत्वं विज्ञेयम्, कुत इत्याह- आकाशपटानुमानात् अत्रानुमानशब्दो दृष्टान्तवचनः, आकाशपटदृष्टान्तात् / ततश्चैवं प्रयोगः- नित्य आत्मा, स्वकारणविभागाभावाद्, आकाशवत्, तथा कारणविनाशाभावाद्, आकाशवदेव, यस्त्वनित्यस्तस्य कारणविभागभावः कारणविनाशभावो वा यथा पटस्येति व्यतिरेकः, पटाद्धि तन्तवो विभज्यन्ते विनश्यन्ति चेति नित्यत्वसिद्धिः। नित्यत्वादमूर्तः, अमूर्तत्वाइहादन्य इति गाथार्थः // नियुक्तिगाथायां कारणविभागाभावात्कारणविनाशाभावाच्चेति द्वारद्वयं व्याख्याय साम्प्रतं बन्धस्य प्रत्ययाभावादिति व्याचिख्यासुराह // 209 //