________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 208 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् षड्जीवनिकायः भाष्यम् 42-44 अन्यत्वादिद्वारत्रयम। भा०- णिच्चोत्ति दारमहुणा णिच्चो अविणासि सासओजीवो। भावत्ते सइ जम्माभावाउ नहं व विन्नेओ॥४२॥ नित्य इति नित्यद्वारमधुनाऽवसरप्राप्तम्, तद्व्याचिख्यासयाऽऽह- नित्यो जीव इति, एतावत्युच्यमाने परैरपि संतानस्य नित्यत्वाभ्युपगमात्सिद्धसाध्यतेति तन्निराकरणायाह- अविनाशी-क्षणापेक्षयाऽपि न निरन्वयनाशधर्मा, एवमपि परिमितकालावस्थायी कैश्चिदिष्यते-कप्पट्ठाई पुढवी भिक्खू वेति वचनात्तदपोहायाह-शाश्वत इति सर्वकालावस्थायी, कुत इत्याहभावत्वे सति वस्तुत्वे सतीत्यर्थः, जन्माभावात् अनुत्पत्तेः नभोवद् आकाशवद्विज्ञेयः, भावत्वे सतीति विशेषणं खरविषाणादिव्यवच्छेदार्थमिति गाथार्थः॥ हेत्वन्तराण्याह__ भा०-संसाराओ आलोयणाउ तह पञ्चभिन्नभावाओ।खणभंगविघायत्थं भणिअंतेलोक्कदंसीहिं॥४३॥ संसारा दिति संसरणं संसारस्तस्मात्, स एव नारकः स एव तिर्यगादिरिति नित्यः, आलोचना दिति आलोचनं-करोम्यह कृतवानहं करिष्येऽहमित्यादिरूपं त्रिकालविषयमिति नित्यः, तथा प्रत्यभिज्ञाभावात् स एष इति प्रत्यभिज्ञाप्रत्यय आविद्वदङ्गनादिसिद्धः तदभेदग्राहीति नित्य इति, उक्ताभिधानफलमाह- क्षणभङ्गविघातार्थं निरन्वयक्षणिकवस्तुवादविघातार्थं भणितं त्रैलोक्यदर्शिभिःतीर्थकरैः एतदनन्तरोदितम्, न पुनरेष एव परमार्थ इति गाथार्थः // एतदेव दर्शयति भा०- लोगे वेए समए निच्चो जीवो विभासओ अम्हं / इहरा संसाराई सव्वंपि न जुज्जए तस्स // 44 // 0 कल्पस्थायिनी पृथ्वी भिक्षवो वा। 6 न च वाच्यं 'मनुर्नभोऽङ्गिरो वती' (सि०१-१-२४) त्यनेन नभस्वदित्येव स्यादिति, लोकप्रसिद्धच्छान्दसशब्दसाधनमूलत्वात्तत्प्रयासस्य, अत एव 'नभोऽङ्गिरोमनुषां वेत्युपसंख्यान'मिति वैदिक्यामाख्यातवान् दीक्षितः, कैयटो भाष्यप्रदीपेऽपि उपसंख्यानान्येतानि छन्दोविषयाणीत्याहु'रिति जगाद, नभोऽस्याश्रयत्वेनेति नभस्वच्छब्दं व्युत्पादयामासुश्च व्याख्याकारा अतः वायुशब्दपर्यायव्याख्याने / // 208 //