________________ श्रीदश वैकालिकं श्रीहारि० चतुर्थमध्ययनं षड्जीव निकायम्, वृत्तियुतम् // 212 // तथा स्तनाभिलाषादिति, तदहर्जातबालकस्यापि स्तनाभिलाषदर्शनात्, न चान्यकालाननुभूतस्तनपानस्यायमुपपद्यते, प्रयोगश्च-तदहर्जातबालकस्याऽऽद्यस्तनाभिलाषोऽभिलाषान्तरपूर्वकः, अभिलाषत्वाद्, तदन्यस्तनाभिलाषवत्, तद्वदप्रथमत्वसाधनाद् विरुद्धो हेतुरिति चेन्न, प्रथमत्वानुभवेन बाधनात्, 'असति च बाधने विरुद्ध' इति न्यायाद्, अन्यथा हेतूच्छेदप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रस्य प्रस्तुतत्वादिति / नित्यादिक्रियायोजना पूर्ववदिति नियुक्तिगाथार्थः / एतामेव नियुक्तिगाथां लेशतो व्याचिख्यासुराह भाष्यकार:___भा०-रोगस्सामयसन्ना बालकयं जंजुवाऽणुसंभरइ / जंकयमन्नंमि भवे तस्सेवन्नत्थुवत्थाणा // 48 // रोगस्यामय इति संज्ञा, बालकृतं किमपि वस्तु यद्' यस्माधुवाऽनुस्मरति, तथा यत्कृतमन्यस्मिन् भवे-कुशलाकुशलं कर्म तस्यैव-कर्मणोऽन्यत्र- भवान्तरे उपस्थानात्, सर्वत्र भावार्थयोजना कृतैवेति गाथार्थः॥ ___भा०-णिच्चो अणिंदियत्ता खणिओ नवि होइ जाइसंभरणा / थणअभिलासा य तहा अमओ नउ मिम्मउव्व घडो॥४९॥ नित्य इति, सर्वत्र क्रियाभिसंबध्यते, अतीन्द्रियत्वात्-श्रोत्रादिभिरग्रहणादित्यर्थः, विज्ञेयो ज्ञातव्यः / तथा च जातिस्मरणात्, पाठान्तरं वा क्षणिको न भवति जातिस्मरणादिति, एतदप्यदुष्टमेव, विधिप्रतिषेधाभ्यां साध्यार्थाभिधानात्, स्तनाभिलाषाच्च, तथा अमयोऽयमात्मा, नतु मृन्मय इव घटः, ततश्चाकारण इत्यर्थः। एतदपि नित्यत्वादिप्रसाधकमिति नियुक्तिगाथायामनुपन्यस्तमप्युक्तं सूक्ष्मधिया भाष्यकारेणेति गाथार्थः // तृतीयां नियुक्तिगाथामाह नि०- सव्वन्नुवदिठ्ठत्ता सकम्मफलभोयणा अमुत्तत्ता। जीवस्स सिद्धमेवं निच्चत्तममुत्तमन्नत्तं // 227 // सर्वज्ञोपदिष्टत्वा दिति नित्यो जीव इति सर्वज्ञोक्तत्वात्, अवितथं च सर्वज्ञवचनम्, तस्य रागादिरहितत्वादिति / तथा सूत्रम् 1 षड्जीवनिकाय: भाष्यम् 48-49 जीवनित्यत्वसिद्धि। नियुक्ति 227 जीवकर्तृत्वद्वारम्। // 212 //