________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 206 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् 1 षड्जीवनिकायः भाष्यम् 37-38 नियुक्ति: 225 अन्यत्वादिद्वारत्रयम्। नि०- कारणविभागकारणविणासबंधस्स पच्चयाभावा। विरुद्धस्स य अत्थस्सापाउब्भावाविणासा य।। 225 / / कारणविभागकारणविनाशबन्धस्य प्रत्ययाभावा दिति अत्राभावशब्दः प्रत्येकमभिसंबध्यते, कारणविभागाभावात् न खलु जीवस्य पटादेरिव तन्त्वादिकारणविभागोऽस्ति, कारणाभावादेव / एवं कारणविनाशाभावेऽपि योज्यम्, तथा बन्धस्यज्ञानावरणादिपुद्गलयोगलक्षणस्य प्रत्ययाभावात्- हेतुत्वानुपपत्तेः, बन्धस्येति बध्यमानव्यतिरिक्तबन्धज्ञापनार्थमसमासः, व्यतिरेकी चायमन्वयव्यतिरेकावर्थसाधकाविति दर्शनार्थमिति, तथा विरुद्धस्य चार्थस्य पटादिनाशे भस्मादेरिव अप्रादुर्भावादविनाशाच्च अप्रादुर्भावेऽनुत्पत्तौ सत्यामविनाशाच्च हेतोः जीवस्य नित्यत्वम्, नित्यत्वादमूर्तत्वम्, अमूर्तत्वाच्च देहादन्यत्वमिति प्रतिपत्त्यानुगुण्यतो व्यत्ययेन साध्यनिर्देशः। वक्ष्यति च नियुक्तिकारः-'जीवस्स सिद्धमेवं, निच्चत्तममुत्तमन्नत्तं' इति गाथासमासार्थः।व्यासार्थस्तु भाष्यादवसेयः, तत्राव्युत्पन्नविनेयासंमोहनिमित्तं यथोपन्यासंतावहाराणि व्याख्याय पश्चान्नियुक्तिकाराभिप्रायेण मीलयिष्यतीत्यत आह भा०- अन्नत्ति दारमहुणा अन्नो देहा गिहाउ पुरिसो व्व।तज्जीवतस्सरीरियमयघायत्थं इमं भणियं // 37 // अन्यो देहादिति द्वारमधुना, तदेतद्व्याख्यायते- अन्यो देहात्, जीव इति गम्यते, गृहादिगतपुरुषवदिति दृष्टान्तः, तद्भावेऽपि तत्रानियमतो भावादिति हेतुरभ्यूह्यः, न चासिद्धोऽयम्, मृतदेहेऽदर्शनात्, प्रयोगफलमाह- तज्जीवतच्छरीरवादिमतविघातार्थम्, इदं प्रयोगरूपं भणितमिति गाथार्थः॥ प्रयोगान्तरमाह भा०- देहिदियाइरित्तो आया खलु तदुवलद्धअत्थाणं / तव्विगमेऽविसरणओ गेहगवक्खेहिं पुरिसो व्व // 38 // Oनियुक्तिमूलद्वारापेक्षया संगृहीतार्थवाचका गाथा नियुक्तिः, तस्याश्च यद्विवरणं तद्भाष्यम्, कर्त्ता त्वनयोरेक एवोभयोरपीति वि० प.। // 206 //