________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 205 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् 1 षङ्जीवनिकाय: भाष्यम् 34-36 जीवसिद्धिः जीवास्तित्वं स्पर्शेन शीतादिना यथा वायुर्गृह्यते कायसंसृतो देहसंगतः अदृष्टोऽपि, तथा ज्ञानादिभिः ज्ञानदर्शनेच्छादिभिर्जीवो गृह्यते कायसंसृतो' देहसंगत इति गाथार्थः / असकृदनुमानादस्तित्वमुक्तं जीवस्य, अनुमानं च प्रत्यक्षपूर्वकम्, न चैनं केचन पश्यन्तीति, ततश्चाशोभनमेतदित्याशङ्कयाह भा०- अणिंदियगुणं जीवं, दुन्नेयं मंसचक्खुणा। सिद्धा पासंति सव्वन्नू, नाणसिद्धाय साहुणो॥३४॥ अनिन्द्रियगुणं अविद्यमानरूपादीन्द्रियग्राह्यगुणं जीवं अमूर्तत्वादिधर्मकं दुर्जेयं दुर्लक्षं मांसचक्षुषा छद्मस्थेन, पश्यन्ति सिद्धाः सर्वज्ञाः, अञ्जनसिद्धादिव्यवच्छेदार्थं सर्वज्ञग्रहणम्, ततश्च ऋषभादय इत्यर्थः, ज्ञानसिद्धाश्च साधवो- भवस्थकेवलिन इति गाथार्थः।साम्प्रतमागमादस्तित्वमाह भा०- अत्तवयणं तु सत्थं दिट्ठा यतओ अइंदियाणंपि।सिद्धी गहणाईणं तहेव जीवस्स विनेया॥३५॥ __आप्तवचनं तु शास्त्रम्, आप्तो-रागादिरहितः, तुशब्दोऽवधारणे, आप्तवचनमेव, अनेनापौरुषेयव्यवच्छेदमाह, तस्यासंभवादिति / दृष्टा च तत इति उपलब्धा च ततः- आप्तवचनशास्त्रात् अतीन्द्रियाणामपि इन्द्रियगोचरातिक्रान्तानामपि, सिद्धिः ग्रहणादीना मिति उपलब्धिश्चन्द्रोपरागादीनामित्यर्थः, तथैव जीवस्य विज्ञेयेति, अतीन्द्रियस्याप्याप्तवचनप्रामाण्यादिति गाथार्थः। मूलद्वारगाथायां व्याख्यातमस्तित्वद्वारम्, अधुनाऽन्यत्वादिद्वारत्रयव्याचिख्यासुराह __भा०- अण्णत्तममुत्तत्तं निच्चत्तं चेव भण्णए समयं / कारणअविभागाईहेऊहिं इमाहिं गाहाहिं // 36 // __ अन्यत्वं देहाद् अमूर्तत्वं स्वरूपेण नित्यत्वं चैव- परिणामिनित्यत्वं भण्यते समकं एकैकेन हेतुना त्रितयमपि युगपदितिएककालमित्यर्थः, कारणाविभागादिभिः वक्ष्यमाणलक्षणैर्हेतुभिः इमाभिः तिसृभिर्नियुक्तिगाथाभिरेवेति गाथार्थः॥ // 205 //