SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 203 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् 1 षजीवनिकायः भाष्यम् 27-30 जीवसिद्धिः जीवास्तित्वं च / भा०- चोयगसुद्धपयत्ता सिद्धी जइ एवं सुण्णसिद्धि अम्हं पि। तं न भवइ संतेणं जं सुन्नं सुन्नगेहं व॥२७॥ उक्तवच्छुद्धपदत्वात्सिद्धिर्यदि जीवस्य एवं तर्हि शून्यसिद्धिरस्माकमपि, शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह- तन्न भवति यदुक्तं परेण, कुत इत्याह- सता विद्यमानेन पदार्थेन यद् यस्माच्छून्यं शून्यमुच्यते, किंवदित्याहशून्यगृहमिव, तथाहि- देवदत्तेन रहितं शून्यगृहमुच्यते, निवृत्तो घटो नष्ट इति, नत्वनयोर्जीवशब्दस्य जीववदव (वि)शिष्टं वाच्यमस्तीति गाथार्थः॥प्रकारान्तरेणास्तित्वपक्षमेव समर्थयन्नाह भा०- मिच्छा भवेउ सव्वत्था, जे केई पारलोइया। कत्ता चेवोपभोत्ता य, जइ जीवोन विज्जइ॥२८॥ मिथ्या भवेयुः अनृताः स्युः, सर्वेऽर्था ये केचन पारलौकिका- दानादयः, यदि किमित्याह- कर्ता चैव कर्मणः उपभोक्ता च तत्फलस्य, यदि जीवो न विद्यते परलोकयायीति गाथार्थः॥ एतदेवाव्युत्पन्नशिष्यानुग्रहार्थं स्पष्टतरमाह भा०- पाणिदयातवनियमा बंभं दिक्खा य इंदियनिरोहो। सव्वं निरत्थयमेयं जइ जीवोन विजई // 29 // प्राणिदयातपोनियमाः करुणोपवासहिंसाविरत्यादिरूपाः, तथा ब्रह्म ब्रह्मचर्यं दीक्षा च यागलक्षणा इन्द्रियनिरोधः प्रव्रज्याप्रतिपत्तिरूपः, सर्वं निरर्थकं निष्फलमेतत्, यदि जीवो न विद्यते परलोकयायीति गाथार्थः / / किंच-'शिष्टाचरितो मार्गः, शिष्टैरनुगन्तव्य' इति, तन्मार्गख्यापनायाह भा०- लोइया वेइया चेव, तहा सामाइया विऊ। निच्चो जीवो पिहो देहा, इइ सव्वे ववत्थिया॥३०॥ लोके भवा लोके वा विदिता इति लौकिका- इतिहासादिकर्तारः, एवं वैदिकाश्चैव- त्रैविद्यवृद्धाः, तथा सामायिकाःत्रिपिटकादिसमयवृत्तयो विद्वांसः पण्डिताः, नित्यो जीवो, नानित्यः, एवं पृथग् देहात् शरीरादित्येवं सर्वे व्यवस्थिताः, नान्यथेति / 203 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy