SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 202 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् षड्जीवनिकायः भाष्यम् 24-26 जीवसिद्धिः जीवास्तित्वं च। भा०- जीवस्स एस धम्मो जाईहा अत्थि नत्थि वा जीवो। खाणुमणुस्साणुगया जह ईहा देवदत्तस्स / / 24 // जीवस्यैष स्वभाव:- एष धर्मः या ईहा सदर्थपर्यालोचनात्मिका, किंविशिष्टत्याह-अस्ति नास्ति वा जीव इति, लोकप्रसिद्धं निदर्शनमाह- स्थाणुमनुष्यानुगता किमयं स्थाणुः किंवा पुरुष इत्येवंरूपा येहा देवदत्तस्य जीवतो धर्म इति गाथार्थः॥ प्रकारान्तरेणैतदेवाह भा०- सिद्धं जीवस्स अत्थित्तं, सद्दादेवाणुमीयए। नासओ भुवि भावस्स, सद्दो हवइ केवलो // 25 // सिद्धं प्रतिष्ठितं जीवस्य उपयोगलक्षणस्यास्तित्वम्, कुत इत्याह- शब्दादेव जीव इत्यस्मादनुमीयते, कथमेतदेवमित्याहनासत इति न असतः- अविद्यमानस्य भुवि पृथिव्यांभावस्य पदार्थस्य शब्दो भवति वाचक इति, खरविषाणादिशब्दैर्व्यभिचारमाशङ्कयाह- केवलः शुद्धः अन्यपदासंसृष्टः, खरादिपदसंसृष्टाश्च विषाणादिशब्दा इति गाथार्थः॥ एतद्विवरणायैवाह भाष्यकार: भा०- अत्थिति निव्विगप्पो जीवो नियमाउसद्दओ सिद्धी। कम्हा? सुद्धपयत्ता घडखरसिंगाणुमाणाओ॥२६॥ अस्तीति निर्विकल्पो जीवः, निर्विकल्प इति निःसंदिग्धः, नियमात् नियमेनैव, प्रतिपत्त्रपेक्षयाशब्दतः सिद्धिः वाचकाद्वाच्यप्रतीतेः, एतदेव प्रश्नद्वारेणाह- कस्मात् कुत एतदेवमिति?, आह-शुद्धपदत्वात् केवलपदत्वाजीवशब्दस्य, घटखरशृङ्गानुमानाद्, अनुमानशब्दो दृष्टान्तवचनः, घटखरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगस्तु-मुख्येनार्थेनार्थवान् जीवशब्दः, शुद्धपदत्वाद्, घटशब्दवत्, यस्तु मुख्येनार्थेनार्थवान् न भवति स शुद्धपदमपि न भवति, यथा खरशृङ्गशब्द इति गाथार्थः॥पराभिप्रायमाशङ्कय परिहरन्नाह // 202 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy