SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 201 // चतुर्थमध्ययन षड्जीवनिकायम्, सूत्रम् 1 षड्जीवनिकायः भाष्यम् 21-23 जीवसिद्धिः जीवास्तित्वं च। एतदेव स्पष्टयति भा०- जम्हा चित्ताईया जीवस्स गुणा हवंति पञ्चक्खा / गुणपञ्चक्खत्तणओ घडुव्व जीवो अओ अत्थि॥२१॥ यस्मात् चित्तादयः अनन्तरोक्ताः जीवस्य गुणाः, नाजीवस्य,शरीरादिगुणविधर्मत्वात्, एते च भवन्ति प्रत्यक्षाः, स्वसंवेद्यत्वात्, यतश्चैवं गुणप्रत्यक्षत्वाद्धेतोर्घटवज्जीवः अतोऽस्तीति प्रयोगार्थः, प्रयोगस्तु- सन्नात्मा, गुणप्रत्यक्षत्वात्, घटवत्, नायं घटवदात्मनोऽचेतनत्वापादनेन विरुद्धः, विरुद्धोऽसति बाधने इतिवचनात्, एतच्चैतन्यं प्रत्यक्षेणैव बाधनमिति गाथार्थः॥ व्याख्यातं मूलद्वारगाथाद्वये प्रतिद्वारगाथाद्वयेन लक्षणद्वारम्, इदानीमस्तित्वद्वारावसरः, तथा चाह भाष्यकार:____ भा०- अत्थित्ति दारमहुणा जीवस्सइ अस्थि विजए नियमा।लोआययमयघायस्थमुच्चए तत्थिमो हेऊ // 22 // अस्तीति द्वारमधुना-साम्प्रतमवसरप्राप्तम्, तत्रैतदुच्यते-जीवः सन्, पृथिव्यादिविकारदेहमात्ररूपः सन्निति सिद्धसाध्यता न तु ततोऽन्योऽस्तीत्याशङ्कापनोदायाह- अस्त्यन्यश्चैतन्यरूपः, तदपि मातृचैतन्योपादानं भविष्यति परलोकयायी तु न विद्यते इति मोहापोहायाह- विद्यते नियमात् नियमेन, तथा चाह- लोकायतमतघातार्थं नास्तिकाभिप्रायनिराकरणार्थमुच्यत एतत्, तस्य चानन्तरोदित एवाभिप्राय इति सफलानि विशेषणानि, तत्र लोकायतमतविघाते कर्तव्ये अयं वक्ष्यमाणलक्षणो हेतुः अन्यथानुपपत्तिरूपो युक्तिमार्ग इति गाथार्थः॥ भा०- जो चिंतेइ सरीरे नत्थि अहंस एव होइ जीवो त्ति। नहु जीवंमि असंते संसयउप्पायओ अन्नो // 23 // यश्चिन्तयति शरीरे अत्र लोकप्रतीते नास्त्यहं स एव चिन्तयिता भवति जीव इति / कथमेतदेवमित्याह-न यस्माजीवेऽसति मृतदेहादौ संशयोत्पादकः अन्यः प्राणादिः, चैतन्यरूपत्वात्संशयस्येति गाथार्थः / एतदेव भावयति // 201 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy