SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययन षड्जीव श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / 200 // निकायम्, न चायं विशेषविरुद्धः, कर्मसंबद्धस्यात्मनः संघातरूपत्वाभ्युपगमात् / गतमिन्द्रियद्वारम्, अधुना बन्धादिद्वाराण्याहग्रहणवेदकनिर्जरकः कर्मणोऽन्यो, यथाऽऽहार इति, तत्र ग्रहणं-कर्मणो बन्धः वेदनं- उदयः निर्जरा-क्षयः, यथाऽऽहारे इतिआहारविषयाणि ग्रहणादीनि न कळदिव्यतिरेकेण तथा कर्मणोऽपीति प्रयोगार्थः, प्रयोगस्तु-विद्यमानभोक्तृकमिदं कर्म, ग्रहणवेदननिर्जरणसद्धावाद्, आहारवदितिगाथार्थः ।उक्तानिबन्धादिद्वाराणि, व्याख्याता च प्रथमा प्रतिद्वारगाथा, साम्प्रतं द्वितीयामधिकृत्य चित्तादिस्वरूपव्याचिख्यासयाऽऽह___ भा०-चित्तं तिकालविसयं चेयण पच्चक्ख सन्नमणुसरणं / विण्णाणऽणेगभेयं कालमसंखेयरं धरणा // 19 // चित्तं त्रिकालविषयं- ओघतोऽतीतानागतवर्तमानग्राहि, चेतनं चेतना-सा प्रत्यक्षवर्तमानार्थग्राहिणी, संज्ञानं संज्ञा-सा अनुस्मरणमिदं तदिति ज्ञानम्, विविधं ज्ञानं विज्ञानं अनेकभेदं- अनेकप्रकारम्, अनेकधर्मिणि वस्तुनि तथा तथाऽध्यवसाय इत्यर्थः, कालमसंख्येयेतरं असंख्येयं संख्येयंवा, धारणाअविच्युतिस्मृतिवासनारूपा, तत्र वासनारूपा असंख्येयवर्षायुषामसंख्येयं संख्येयवर्षायुषांच संख्येयमिति गाथार्थः॥ भा०- अत्थस्स ऊह बुद्धी ईहा चेट्ठत्थअवगमो उमई। संभावणस्थतक्का गुणपच्चक्खा घडोव्वऽत्थि // 20 // अर्थस्योहा बुद्धिः संज्ञिनः परनिरपेक्षोऽर्थपरिच्छेद इति भावः, ईहा- चेष्टा किमयं स्थाणुः किंवा पुरुष? इति सदर्थपर्यालोचनरूपा, अर्थावगमस्तु अर्थपरिच्छेदस्तु शिरःकण्डूयनादिधर्मोपपत्तेः पुरुष एवायमित्येवंरूपा मतिः, संभावणत्थतक्क त्ति प्राकृतशैल्या अर्थसंभावना- एवमेव चायमर्थ उपपद्यत इत्यादिरूपा तर्का। इत्थं द्वाराणि व्याख्याय सर्व एते चित्तादयो गुणा वर्तन्त इति जीवाख्यगुणिप्रतिपादकेन प्रयोगार्थेनोपसंहरन्नाह-गुणप्रत्यक्षत्वाद्धेतोर्घटवदस्ति जीव इति गम्यते, एष गाथार्थः। सूत्रम् षङ्जीवनिकाय: भाष्यम् 19 जीवस्य लक्षणानि जीवशुद्धिः भाष्यम् 20 जीवसिद्धिः जीवास्तित्वं // 200 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy