SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 199 // भाष्यम् प्रयोगस्तु- सन्नात्मा, स्वलक्षणापरित्यागाद्, अग्निवदिति / उक्तमुपयोगद्वारम्, अधुना कषायद्वारमाह- सकषायत्वाद्-अचेत- चतुर्थमध्ययनं नविलक्षणक्रोधादिपरिणामोपेतत्वादित्यर्थः, नाभावो जीवः, कुत इत्याह- पर्यायगमनात्-क्रोधमानादिपर्यायप्राप्तेः, सुवर्णवत्, षड्जीव निकायम्, कटकादिपर्यायगमनोपेतसुवर्णवदिति प्रयोगार्थः,प्रयोगस्तु-सन्नात्मा, पर्यायगमनात्, सुवर्णवदिति गाथार्थः / उक्तं कषाय सूत्रम् 1 द्वारम्, इदानीं लेश्याद्वारमाह षड्जीवनिकाय: भा०- लेसाओणाभावो परिणमणसभावओ यखीरं व। उस्सासा णाभावो समसब्भावा खउव्व नरो॥१७॥ 17-18 8 लेश्यातो लेश्यासद्धावेन नाभावो जीवः, किंतु भाव इति, कुत इत्याह- परिणमनस्वभावत्वात्- कृष्णादिद्रव्यसाचिव्येन / जीवस्य जम्बूखादकादिदृष्टान्तसिद्धतथाविधपरिणामधर्मत्वात्, क्षीरवदिति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, परिणामित्वात्, क्षीरव लक्षणानि जीवशुद्धिः। दिति ।गतं लेश्याद्वारम्, प्राणापानद्वारमाह- उच्छासादिति, अचेतनधर्मविलक्षणप्राणापानसद्भावान्नाभावो जीवः, किंतु भाव एवेति, श्रमसद्भावेन परिस्पन्दोपेतपुरुषवदिति प्रयोगार्थः, प्रयोगस्तु पुनरत्र व्यतिरेकी द्रष्टव्यः, सात्मकं जीवच्छरीरम्, प्राणादिमत्त्वाद्, यत्तु सात्मकं न भवति तत्प्राणादिमदपि न भवति, यथाऽऽकाशमिति गाथार्थः / उक्तं प्राणापानद्वारम्, अधुना इन्द्रियद्वारमुच्यते भा०- अक्खाणेयाणि परत्थगाणि वासाइवेह करणत्ता। गहवेयगनिजरओ कम्मस्सऽन्नो जहाहारो॥१८॥ अक्षाणि इन्द्रियाणि एतानी ति लोकप्रसिद्धानि देहाश्रयाणि परार्थानि आत्मप्रयोजनानि, वास्यादिवदिह करणत्वात् इहलोके वास्यादिवदिति प्रयोगार्थः / आह-आदानान्येवेन्द्रियाणि तत्किमर्थं भेदोपन्यासः?, उच्यते, निर्वृत्त्युपकरणद्वारेण द्वैविध्यख्यापनार्थम्, ततश्च तत्रोपकरणस्य ग्रहणमिह तु निर्वृत्तेरिति, प्रयोगस्तु- परार्थाश्चक्षुरादयः, संघातत्वात्, शयनासनादिवत्,
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy