________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 198 // रूपादयः ग्राहकाणि- इन्द्रियाणि तेषां प्रयोगः- स्वफलसाधनव्यापारस्तस्मात्, न ह्यमीषां कर्मकरणभावः कर्तारमन्तरेण चतुर्थमध्ययनं स्वकार्यसाधनप्रयोगःसंभवति, अनेनापि हेत्वर्थमाह,हेतुश्चादेयादानरूपत्वादिति ।दृष्टान्तमाह-संदंशाद् आदानात् अयस्पिण्डाद् / षड्जीव निकायम्, आदेयात् अयस्कारादिवत् लोहकारवद्विज्ञेयः अतिरिक्तो विद्यमान आदातेत्यनेनापि दृष्टान्तार्थमाह, दृष्टान्तस्तु संदंशकाय सूत्रम् 1 स्पिण्डवत्, यस्तु तदनतिरिक्त: न ततो ग्राह्यग्राहकप्रयोगः, यथा देहादिभ्य एवेति व्यतिरेकार्थः, व्यतिरेकस्तु यानि विद्यमाना- षङ्जीवनिकाय: भाष्यम् दातृकाणि न भवन्ति तान्यादानादेयरूपाण्यपि न भवन्ति, यथा मृतकद्रव्येन्द्रियादीनीति गाथार्थः॥ उक्तमादानद्वारम्, 15-16 अधुना परिभोगद्वारमाह जीवस्य लक्षणानि ___ भा०- देहो सभोत्तिओ खलु भोज्जत्ता ओयणाइथालं व / अन्नप्पउत्तिगा खलु जोगा परसुव्व करणत्ता॥१५॥ जीवशुद्धिः। देहः सभोक्तृकः खल्विति प्रतिज्ञा, भोग्यत्वादिति हेतुः, ओदनादिस्थालवत्-स्थालस्थितौदनवदिति दृष्टान्तः, भोग्यत्वं च देहस्य जीवेन तथा निवसतोपभुज्यमानत्वादिति / उक्तं परिभोगद्वारम्, अधुना योगद्वारमाह- अन्यप्रयोक्तृकाः खलु योगाः, योगाः-साधनानि मनःप्रभृतीनि करणानीति प्रतिज्ञार्थः, करणत्वादिति हेतुः, परशुवदिति दृष्टान्तः। भवति च विशेषे पक्षीकृते सामान्यं हेतुः- यथा अनित्यो वर्णात्मकः शब्दः, शब्दत्वात्, मेघशब्दवदिति गाथार्थः / उक्तं योगद्वारम्, साम्प्रतमुपयोगद्वारमाह भा०- उवओगा नाभावो अग्गिव्व सलक्खणापरिच्चागा / सकसाया णाभावो पज्जयगमणा सुवण्णं व // 16 // उपयोगात् साकारानाकारभेदभिन्नान्नाभावो, जीव इति गम्यते, कुत इत्याह- स्वलक्षणापरित्यागाद् उपयोगलक्षणासाधारणात्मीयलक्षणापरित्यागात्, अग्निवद्, यथाऽग्निरौष्ण्यादिस्वलक्षणापरित्यागानाभावस्तथा जीवोऽपीति प्रयोगार्थः, // 198 //