SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययन षड्जीव श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 194 // एतद्द्वारगाथाद्वयम्, अस्य व्याख्या- जीवस्य तु निक्षेपो नामादिः, प्ररूपणा द्विविधाश्च भवन्ति जीवा इत्यादिरूपा लक्षणं च- आदानादि अस्तित्वंसत्त्वं शुद्धपदवाच्यत्वादिना अन्यत्वं देहात् अमूर्तत्वं स्वतः नित्यत्वं विकारानुपलम्भेन कर्तृत्वंस्वकर्मफलभोगात् देहव्यापित्वंतत्रैव तल्लिङ्गोपलब्ध्या गुणित्वंयोगादिना ऊर्ध्वगतित्वं अगुरुलघुभावेन निर्मा(म)यता विकाररहितत्वेन, सफलता-च कर्मणः परिमाणं लोकाकाशमात्र इत्यादि (ग्रन्थाग्रं 3000) एवं जीवस्य त्रिविधकाल इति त्रिकालविषया, परीक्षा भवति कर्तव्या इति द्वारगाथाद्वयसमासार्थः // व्यासार्थस्तु भाष्यादवसेयः, तथा च निक्षेपमाह नि०- नामंठवणाजीवो दव्वजीवोय भावजीवोय। ओह भवग्गहणंमि य तब्भवजीवे य भावम्मि / / 222 // नामस्थापनाजीव इति जीवशब्दःप्रत्येकमभिसंबध्यते, नामजीवः स्थापनाजीव इति, तथा द्रव्यजीवश्च भावजीवश्च वक्ष्यमाणलक्षणः, तत्र ओघ इति ओघजीवः, भवग्रहणे चे ति भवजीवः, तद्भवजीवश्च तद्भव एवोत्पन्नः, भावे भावजीव इति गाथासमासार्थः // व्यासार्थं त्वाह भा०- नामंठवण गयाओ दव्वे गुणपज्जवेहि रहिउत्ति / तिविहो य होइ भावे ओहे भव तब्भवे चेव॥६॥ नामस्थापने गते, क्षुण्णत्वादिति भावः, द्रव्य इति द्रव्यजीवो गुणपर्यायाभ्यां चैतन्यमनुष्यत्वादिलक्षणाभ्यां रहितः, बुद्धिपरिकल्पितो, नत्वसावित्थंविधः संभवतीति, त्रिविधश्च भवति भाव इति,भावजीवत्रैविध्यमाह-ओघजीवो भवजीवस्तद्भवजीवश्चेति, प्राग्गाथोक्तमप्येतदित्थंविधभाष्यकारशैलीप्रामाण्यतोऽदुष्टमेवेति / अन्ये तु पठन्ति-'भावे उतिहा भणिओ, तं पुण संखेवओवोच्छं' 'भाव' इति भावजीवः, 'विधे'ति त्रिप्रकारो भणितो' नियुक्तिकारेण ओघजीवादिः, तमपि च भावार्थमधिकृत्य संक्षेपतो वक्ष्य इति गाथार्थः // तत्रौघजीवमाह निकायम्, सूत्रम् 1 षड्जीवनिकायः नियुक्ति: 222 जीवपदस्य व्याख्यानिक्षेपद्वाराणि। भाष्यम६ जीवनिक्षेपाः।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy