________________ षड्जीव श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 195 // भावजीवः भा०- संते आउयकम्मे धरई तस्सेव जीवई उदए। तस्सेव निजराएमओ त्ति सिद्धो नयमएणं // 7 // चतुर्थमध्ययनं सति विद्यमान आयुष्ककर्मणि सामान्यरूपे ध्रियते सामान्येनैव तिष्ठति भवोदधौ, कथमित्थमवस्थानमात्राज्जीवत्वमस्ये निकायम्, त्याशङ्कयात्रैवान्वर्थयोजनामाह- तस्यैव ओघायुष्ककर्मणो जीवत्युदये उदये सति जीवत्यासंसारं प्राणान् धारयति, अतो सूत्रम् 1 जीवनाजीव इति, तस्यैवौघायुष्ककर्मणो निर्जरया क्षयेण, मृत इति, सर्वथा जीवनाभावात्, स च सिद्धो मृतो, नान्यः, षड्जीवनिकाय: भाष्यम् विग्रहगतावपि तथाजीवनसद्भावात्, नयमतेने ति सर्वनयमतेनैव मृत इति गाथार्थः / उक्त ओघजीवितविशिष्ट ओघजीवः, जीवनिक्षेपाः साम्प्रतं भवजीवंतद्भवजीवं चाह भाष्यम् 8-9 भा०- जेण य धरइ भवगओजीवो जेण य भवाउ संकमई। जाणाहितं भवाउंचउब्विहं तब्भवे दुविहं // 8 // निक्खेवोत्ति गयं॥ प्ररूपणा च। येन च नारकाद्यायुष्केण ध्रियते तिष्ठति भवगतो नारकादिभवस्थितो जीवः, तथा येन च मनुष्याद्यायुष्केण भवात् / नारकादिलक्षणात् संक्रामति याति, मनुष्यादिभवान्तरमिति सामर्थ्यागम्यते, जानीहि विद्धि, तदित्थंभूतं भवायुः भवजीवितम्, चतुर्विधं नारकतिर्यमनुष्यामरभेदेन, तथा तद्भवेतद्भवविषयम्, आयुरिति वर्तते, तच्च द्विविध-तिर्यक्तद्भवायुमनुष्यतद्भवायुश्च, यस्मात्तावेव मृतौ सन्तौ भूयस्तस्मिन्नेव भव उत्पद्यते, नान्ये,तद्भवजीवितंच तस्मान्मृतस्य तस्मिन्नेवोत्पन्नस्य यत्तदुच्यत इति। अत्रापि च भावजीवाधिकारात्तद्भवजीवितविशिष्टश्च जीव एव ग्राह्यः, जीवितं तु तद्विशेषणत्वादुक्तमिति गाथार्थः॥ उक्तो निक्षेपः, इदानीं प्ररूपणामाह भा०- दुविहा य हुँति जीवा सुहुमा तह बायरा य लोगम्मि / सुहुमा यसवअवलोए दो चेव य बायरविहाणे॥९॥ 0 अत्र जीवत्यनेनेति जीव ओघेन सामान्येन जीव ओघजीवितविशिष्टो जीवः, मध्यमपदोत्तरपदलोपाद् इत्थं भवति इत्यधिकं केषुचिदादर्शेषु / // 195 //