________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 193 // बध्यत इत्यादिविषयः, तथा धर्मफलं अनुत्तरज्ञानादि, एते षड्जीवनिकाया अधिकारा इति गाथार्थः / अत्रान्तरे गत उपक्रमः, चतुर्थमध्ययन निक्षेपमधिकृत्याह षड्जीव निकायम्, नि०- छज्जीवणियाए खलु निक्खेवो होइ नामनिप्फन्नो। एएसिं तिण्हंपिउ पत्तेयपरूवणंवोच्छं॥२१७॥ सूत्रम् 1 षड्जीवनिकायायाः प्रक्रान्तायाः खल्विति पूरणार्थो निपातः, निक्षेपो भवति नामनिष्पन्नः, षड्जीवनिकायिकेत्ययमेव, घजीवनिकायः नियुक्तिः यतश्चैवमत एतेषां त्रयाणामपि षड्जीवनिकायपदानां प्रत्येक मिति एकमेकं प्रति प्ररूपणां सूत्रानुसारेण वक्ष्ये अभिधास्य इति 217-219 गाथार्थः। तत्रैकस्याभावे षण्णामभाव इत्येकप्ररूपणामाह 8 उपक्रमेऽ धिकाराः नि०- णामं ठवणा दविए माउगपयसंगहेक्कए चेव / पजवभावे य तहा सत्तेए एक्कगा होंति // 218 // नियुक्तिः नि०- नाम ठवणा दविए खेत्ते काले तहेव भावे / एसो उ छक्कगस्सा निक्खेवो छव्विहो होइ॥२१९ // 220-221 इयं द्रमपुष्पिकायां व्याख्यातेति नेह व्याख्यायते, संग्रहैककेन चात्राधिकारः॥साम्प्रतं व्यादीन् विहाय षट्प्ररूपणामाह जीवपदस्य व्याख्यातत्र नामस्थापने क्षुण्णे, द्रव्यषट्कं- षड् द्रव्याणि सचित्ताचित्तमिश्राणि पुरुषकार्षापणालङ्कतपुरुषलक्षणानि, क्षेत्रषट्कं- निक्षेपद्वाराणि। षडाकाशप्रदेशाः, यद्वा भरतादीनि,कालषट्कं-षट्समयाः षड् ऋतवः, तथैव भावेचेति भावषट्कं-षड्भावा औदयिकादयः, अत्र च सचित्तद्रव्यषट्केनाधिकार इतिगाथार्थः॥आह-अत्र व्याधनभिधानं किमर्थ?, उच्यते, एकषडभिधानतः आद्यन्तग्रहणेन तद्गतेरिति / व्याख्यातं षट्पदम्, अधुना जीवपदमाह // 193 // नि०- जीवस्स उ निक्खेवो परूवणा लक्खणंच अत्थित्तं / अन्नामुत्तत्तं निच्चकारगो देहवावित्तं // 220 // नि०-गुणिउड्डगइत्ते या निम्मयसाफल्लता य परिमाणे। जीवस्स तिविहकालम्मिपरिक्खा होइ कायव्वा / / २२१॥दो दारगाहाओ॥