________________ चतुर्थमध्ययनं षड्जीव श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 192 // निकायम्, सूत्रम् 1 षड्जीवनिकायः भाष्यम्५ नियुक्तिः 216-219 उपक्रमेड|धिकाराः। ॥अथ चतुर्थमध्ययनं षड्जीवनिकायाख्यम् // सुअं मे आउसंतेणं भगवया एवमक्खायं इह खलु छज्जीवणियानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेअंमे अहिजिउं अज्झयणं धम्मपन्नती। सूत्रम् 1 // व्याख्यातं क्षुल्लिकाचारकथाध्ययनमिदानीं षड्जीवनिकायाख्यमारभ्यते, अस्य चायमभिसंबन्धः- इहानन्तराध्ययने 'साधुना धृतिराचारे कार्या न त्वनाचारे, अयमेव चात्मसंयमोपाय' इत्युक्तम्, इह पुनः स आचारःषड्जीवनिकायगोचरः प्राय इत्येतदुच्यते, उक्तं च-छसु जीवनिकाएसु, जे बुहे संजए सया। से चेव होइ विण्णेए, परमत्थेण संजए // 1 // इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, आह च भाष्यकार: भा०-जीवाहारो भण्णइ आयारो तेणिमंतु आयायं। छज्जीवणियज्झयणं तस्सऽहिगारा इमे होंति // 5 // जीवाधारो भण्यत आचारः, तत्परिज्ञानपालनद्वारेणेति भावः, येनैतदेवं तेनेदं आयातं अवसरप्राप्तम्, किं तदित्याहषड्जीवनिकाध्ययनम्, अत्रान्तरे अनुयोगद्वारोपन्यासावसरः, तथा चाह- तस्य षड्जीवनिकाध्ययनस्यार्थाधिकाराः एते भवन्ति वक्ष्यमाणलक्षणा इति गाथार्थः // तानाह नि०-जीवाजीवाहिगमो चरित्तधम्मो तहेव जयणाय। उवएसो धम्मफलं छज्जीवणियाइ अहिगारा // 216 // जीवाजीवाभिगमो जीवाजीवस्वरूपमभिगम्यतेऽस्मिन्नित्यभिगम इतिकृत्वा, स्वरूपे च सत्यभिगम्यत इति भावः, तथा चारित्रधर्मः प्राणातिपातादिनिवृत्तिरूपः, तथैव यतना च पृथिव्यादिष्वारम्भपरिहारयत्नरूपा, तथा उपदेशः यथाऽऽत्मा न षट्सु जीवनिकायेषु यो बुधः संयतः सदा / स एव भवति विज्ञेयः परमार्थेन संयतः॥१॥ // 19 //