SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 191 // सूत्रम् 11-15 प्रक्षयनिमित्तं प्रक्रामन्ति प्रवर्तन्ते, किंभूताः?- महर्षयः साधव इति सूत्रार्थः // 13 // इदानीमेतेषां फलमाह- दुक्कराई तिल तृतीयमध्ययन सूत्रम्, अस्य व्याख्या- एवं दुष्कराणि कृत्वौद्देशिकादित्यागादीनि तथा दुःसहानि सहित्वाऽऽतापनादीनि केचन तत्र देवलोकेषु क्षुल्लिका चारकथा, सौधर्मादिषु, गच्छन्तीति वाक्यशेषः। तथा केचन सिद्ध्यन्ति, तेनैव भवेन सिद्धिं प्राप्नुवन्ति / वर्तमाननिर्देशः सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः। नीरजस्का इत्यष्टविधकर्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्मयुक्ता एवेति सूत्रार्थः॥१४॥येऽपि चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततश्च्युता आर्यदेशेषु सुकुले जन्मावाप्य शीघ्रं सिद्ध्यन्त्येतदाह-'खवित्त'त्ति साधुस्वरूपम्। सूत्रम् , अस्य व्याख्या-ते देवलोकच्युताः क्षपयित्वा पूर्वकर्माणि सावशेषाणि, केनेत्याह- संयमेन उक्तलक्षणेन तपसा च, एवं प्रवाहेण सिद्धिमार्गं सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातार आत्मादीनां परिनिर्वान्ति सर्वथा सिद्धिं प्राप्नुवन्ति, अन्ये तु पठन्ति-'परिनिव्वुड'त्ति, तत्रापि प्राकृतशैल्या छान्दसत्वाच्चायमेव पाठो ज्यायान्, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः।। 15 // उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववद्रष्टव्याः। इति व्याख्यातं क्षुल्लकाचारकथाध्ययनम्॥३॥ // सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वत्तौ तृतीयमध्ययनं क्षुल्लिकाचारकथाख्यं समाप्तमिति / / / 191 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy