________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 190 // दुक्कराई करित्ताणं, दुस्सहाइंसहेत्तु य / के इत्थ देवलोएसु, केइ सिझंति नीरया // सूत्रम् 14 // तृतीयमध्ययन खवित्ता पुव्वकम्माई, संजमेण तवेण य / सिद्धिमग्गमणुप्पत्ता, ताइणोपरिणिव्वुड॥सूत्रम् 15 // क्षुल्लिका चारकथा, त्तिबेमि (गाथाग्रं० 31) // इइ खुड्डियायारकहज्झयणं तइयं // 3 // सूत्रम् पञ्चाश्रवा हिंसादयःपरिज्ञाता द्विविधया परिज्ञया- ज्ञपरिज्ञया प्रत्याख्यानपरिजया च परि-समन्ताज्ज्ञाता यैस्ते पञ्चाश्रव- 11-15 परिज्ञाताः, आहिताग्न्यादेराकृतिगणत्वान्न निष्ठायाः पूर्वनिपात इति समासो युक्त एव, परिज्ञातपञ्चाश्रवा इति वा, यत एव साधुस्वरूपम्। चैवंभूता अत एव त्रिगुप्तामनोवाक्कायगुप्तिभिः गुप्ता।षट्सु संयताः षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यताः, पञ्चनिग्रहणाल इति निगृह्णन्तीति निग्रहणाः कर्तरि ल्युट् पञ्चानां निग्रहणाः पञ्चनिग्रहणाः, पञ्चानामितीन्द्रियाणाम्, धीरा बुद्धिमन्तः स्थिरा वा, निर्ग्रन्थाः साधवः, ऋजुदर्शिन इति ऋजुर्मोक्षं प्रति ऋजुत्वात्संयमस्तं पश्यन्त्युपादेयतयेति ऋजु-दर्शिन:- संयमप्रतिबद्धाः इति सूत्रार्थः // 11 // ते च ऋजुदर्शिनः कालमधिकृत्य यथाशक्त्येतत्कुर्वन्ति-'आयावयंति'त्ति सूत्रम्, अस्य व्याख्याआतापयन्ति-'ऊर्ध्वस्थानादिना आतापनां कुर्वन्ति ग्रीष्मेषु उष्णकालेषु, तथा हेमन्तेषु शीतकालेषु अप्रावृता इति प्रावरणरहितास्तिष्ठन्ति, तथा वर्षासु वर्षाकालेषु संलीना इत्येकाश्रयस्था भवन्ति संयताः साधवः सुसमाहिता ज्ञानादिषु यत्नपराः, ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति सूत्रार्थः॥१२॥ परीसह'त्ति सूत्रम्, अस्य व्याख्या-मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः- क्षुत्पिपासादयस्त एव रिपवस्तत्तुल्यधर्मत्वात्परीषहरिपवस्तेदान्ता- उपशमं नीता यैस्ते परीषहरिपुदान्ताः, // 190 // समासः पूर्ववत्, न प्राकृते पूर्वापरपदनियमव्यवस्था नाणविमलजोण्हाग'मिति यथा, तथा धुतमोहा विक्षिप्तमोहा इत्यर्थः, मोहः-अज्ञानम्, तथा जितेन्द्रियाः शब्दादिषु रागद्वेषरहिता इत्यर्थः, त एवंभूताः सर्वदुःखप्रक्षयार्थं शारीरमानसाशेषदुःख