________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 188 // उपादानम्, अर्थपदमेवोक्तार्थ तदित्यन्ये अभिदधति, अस्मिन् पक्षे सकलद्यूतोपलक्षणार्थं नालिकाग्रहणम्, अष्टापदद्यूत- तृतीयमध्ययनं विशेषपक्षे चोभयोरिति / तथा छत्रस्य च लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रत्यनायेति, आगाढग्लानाद्यालम्बनं क्षुल्लिका चारकथा, मुक्त्वाऽनाचरितम्, प्राकृतशैल्या चात्रानुस्वारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथाश्रुतिप्रामाण्यादिति 19, तथा तेगिच्छं। सूत्रम् 1-10 ति, चिकित्साया भावश्चकित्स्य- व्याधिप्रतिक्रियारूपमनाचरितं 20, तथोपानही पादयोरनाचरिते, पादयोरिति साभि- औदेशिकादि त्रिपञ्चाशदप्रायकम्, न त्वापत्कल्पपरिहारार्थमुपग्रहधारणेन 21, तथा समारम्भश्च समारम्भणंच ज्योतिषः अग्नेस्तदनाचरितमिति 22, नाचीर्णाः। दोषा अष्टापदादीनां क्षुण्णा एवेति सूत्रार्थः॥ 4 // किंच-'सिज्जायर'सूत्रम्, अस्य व्याख्या- शय्यातरपिण्डश्चानाचरितः, शय्या- वसतिस्तया तरति संसारमिति शय्यातरः- साधुवसतिदाता, तत्पिण्डः 23, तथा आसन्दकपर्यौ अनाचरितो, एतौ च लोकप्रसिद्धावेव 24-25, तथा गृहान्तरनिषद्या अनाचरिता, गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनम्, चशब्दात्पाटकादिपरिग्रहः२६, तथा गात्रस्य-कायस्योद्वर्तनानि चानाचरितानि, उद्वर्तनानि- पङ्कापनयनलक्षणानि, चशब्दादन्यसंस्कारपरिग्रहः 27, इति सूत्रार्थः॥५॥तथा-'गिहिणो'त्ति सूत्रम्, अस्य व्याख्या- गृहिणो गृहस्थस्य वैयावृत्त्यं / व्यावृत्तभावो-वैयावृत्त्यम्, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः, एतदनाचरितमिति 28, तथा च आजीववृत्तिता' जातिकुलगणकर्मशिल्पानामाजीवनं आजीवस्तेन वृत्तिस्तद्भाव आजीववृत्तिता-जात्याद्याजीवनेनात्मपालनेत्यर्थः, इयंचानाचरिता 29, तथा तप्तानिवृतभोजित्वं तप्तं च तदनिर्वृतं च- अत्रिदण्डोद्वृत्तं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपत्त्या गम्यते, तदोजित्वं-मिश्रसचित्तोदकभोजित्वमित्यर्थः, इदंचानाचरितं 30, तथा आतुरस्मरणानि च क्षुधाद्यातुराणांपूर्वोपभुक्तस्मरणानि च अनाचरितानि, आतुरशरणानि वा-दोषातुराश्रयदानानि 31, इति सूत्रार्थः॥६॥किंच-'मूलए'त्ति सूत्रम्, अस्य व्याख्या