SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीदश- वैकालिकं श्रीहारि० वृत्तियुतम् // 187 // वर्णयन्ति- यत एव महर्षयोऽत एव निर्ग्रन्थाः , एवं शेषेष्वपि द्रष्टव्यमिति सूत्रार्थः।। साम्प्रतं यदनाचरितं तदाह-'उद्देसियंति तृतीयमध्ययन उद्देशनं साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः तत्र भवमौद्देशिकम्, क्रयणं- क्रीतम्, भावे निष्ठाप्रत्ययः, साध्वादिनिमित्तमिति क्षुल्लिका चारकथा, गम्यते, तेन कृतं-निर्वर्तितं क्रीतकृतं 2, 'नियाग' मित्यामन्त्रितस्य पिण्डस्य ग्रहणं नित्यं न त्वनामन्त्रितस्य 3, 'अभिहडाणि सूत्रम् 1-10 य'त्तिस्वग्रामादेःसाधुनिमित्तमभिमुखमानीतमभ्याहृतम्, बहुवचनंस्वग्रामपरग्रामनिशीथादिभेदख्यापनार्थं 4, तथा रात्रिभक्तं . औद्देशिकादि त्रिपञ्चाशदरात्रिभोजनं दिवसगृहीतदिवसभुक्तादिचतुर्भङ्गलक्षणं 5, स्नानं च देशसर्वभेदभिन्नम्, देशस्नानमधिष्ठानशौचातिरेकेणाक्षि नाचीर्णाः। पक्ष्मप्रक्षालनमपि, सर्वस्नानं तु प्रतीतं 6, तथा गन्धमाल्यव्यजनं च गन्धग्रहणात्कोष्ठपुटादिपरिग्रहः माल्यग्रहणाच्च ग्रथितवेष्टितादेर्माल्यस्य वीजनंतालवृन्तादिनाघर्म एव,७-८-९इदमनाचरितम्, दोषाश्चौद्देशिकादिष्वारम्भप्रवर्तनादयः स्वधियाऽवगन्तव्या इति सूत्रार्थः॥ इदं चानाचरितमित्याह- संनिहि त्ति सूत्रम्, अस्य व्याख्या- संनिधीयतेऽनयाऽऽत्मा दुर्गताविति संनिधिः-घृतगुडादीनां संचयक्रिया 10, गृहिमात्रं गृहस्थभाजनं च 11, तथा राजपिण्डो नृपाहारः, कः किमिच्छतीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोऽन्यो वा सामान्येन 12, तथा संबाधनं अस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनं 13, दन्तप्रधावनं चाङ्गल्यादिना क्षालनं 14, तथा संप्रश्नः सावधो गृहस्थविषयः, राढाई कीदृशो वाऽहमित्यादिरूपः१५, देहप्रलोकनं च आदर्शादावनाचरितं 16, दोषाश्च संनिधिप्रभृतिषु परिग्रहप्राणातिपातादयः स्वधियैव वाच्या इति सूत्रार्थः।। किंच'अट्ठावए य' सूत्रम्, अस्य व्याख्या- अष्टापदं चेति, 'अष्टापदं' द्यूतम्, अर्थपदंवा-गृहस्थमधिकृत्य नीत्यादिविषयमनाचरितं 17, तथा नालिका चे ति द्यूतविशेषलक्षणा, यत्र मा भूत्कलयाऽन्यथा पाशकपातनमिति नलिकया पात्यन्त इति, इयं / चानाचरिता 18, अष्टापदेन सामान्यतो द्यूतग्रहणे सत्यप्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थं भेदेन / // 187 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy