________________ तृतीयमध्ययन श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 186 // संनिही गिहिमत्ते य, रायपिंडे किमिच्छए। संवाहणा दंतपहोयणा य संपुच्छणा देहपलोयणा य॥सूत्रम् 3 // अट्ठावए य नालीए, छत्तस्स य धारणट्ठाए। तेगिच्छं पाहणा पाए, समारंभं च जोइणो।सूत्रम् 4 // क्षुल्लिका चारकथा, सिजायरपिंडं च, आसंदीपलियंकए / गिहतरनिसिज्जा य, गायस्सुव्वट्टणाणि य॥सूत्रम् 5 // सूत्रम् 1-10 गिहिणो वेआवडियं, जाय आजीववत्तिया / तत्तानिव्वुडभोइत्तं, आउरस्सरणाणि य॥ सूत्रम् 6 // औद्देशिकादि त्रिपञ्चाशदमूलए सिंगबेरे य, उच्छुखंडे अनिव्वुडे। कंदे मूले य सच्चित्ते, फले बीए य आमए।सूत्रम् 7 // नाचीर्णाः। सोवच्चले सिंधवे लोणे, रोमालोणे य आमए / सामुद्दे पंसुखारे य, कालालोणे य आमए। सूत्रम् 8 // धुवणे त्ति वमणे य, वत्थीकम्म विरेयणे। अंजणे दंतवणे य, गायान्भंगविभूसणे॥ सूत्रम् 9 // सव्वमेयमणाइन्नं, निग्गंथाण महेसिणं / संजमंमि अजुत्ताणं, लहुभूयविहारिणं ।सूत्रम् 10 // इह संहितादिक्रमः क्षुण्णः, भावार्थस्त्वयं- संयमे द्रुमपुष्पिकाव्यावर्णितस्वरूपे शोभनेन प्रकारेण आगमनीत्या स्थित आत्मा येषां ते सुस्थितात्मानस्तेषाम्, त एव विशेष्यन्ते-विविधं- अनेकैः प्रकारैः प्रकर्षण- भावसारं मुक्ताः- परित्यक्ताः बाह्याभ्यन्तरेण ग्रन्थेनेति विप्रमुक्तास्तेषाम्, त एव विशेष्यन्ते- त्रायन्ते आत्मानं परमुभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः परं तीर्थकराः, स्वतस्तीर्णत्वाद्, उभयं स्थविरा इति, तेषामिदं- वक्ष्यमाणलक्षणं अनाचरितं- अकल्प्यम्, केषामित्याहनिर्ग्रन्थानां साधूनामित्यभिधानमेतत्, महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः, अथवा महान्तं एषितुं शीलं येषां ते / महैषिणस्तेषाम्, इह च पूर्वपूर्वभाव एव उत्तरोत्तरभावो नियमितो हेतुहेतुमद्भावेन वेदितव्यः, यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मनिबन्धनत्वाद्विप्रमुक्तेः, एवं शेषेष्वपि भावनीयम्, अन्ये तु पश्चानुपूर्व्या हेतुहेतुमद्भावमित्थं // 186 //