________________ श्रीदश वैकालिक श्रीहारि० वृत्तियुतम् // 185 // तृतीयमध्ययनं क्षुल्लिकाचारकथा, सूत्रम् 1-10 औद्देशिकादित्रिपञ्चाशदनाचीर्णाः। परिकथयति किञ्चित् सा तु विकथा प्रवचने-सा पुनर्विकथा सिद्धान्ते प्रज्ञप्ता धीरपुरुषैः- तीर्थकरादिभिः, तथाविधपरिणामनिबन्धनत्वात् कर्तृश्रोत्रोरिति, श्रोतृपरिणामभेदे तु तं प्रति कथान्तरमेव, एवं सर्वत्र भावना कार्येति गाथार्थः // 211 // साम्प्रतं श्रमणेन यथाविधान कार्या तथाविधामाह-शृङ्गाररसेन- मन्मथदीपकेन उत्तेजिता- अधिकं दीपिता, केत्याह- मोह एव- चारित्रमोहनीयकर्मोदयसमुत्थात्मपरिणामरूपः कुपितफुफुका- घटितकुकुला हसहसिंति त्ति जाज्वल्यमाना जायत इति वाक्यशेषः, यां शृण्वतः कथां मोहोदयो जायत इत्यर्थः, श्रमणेन- साधुना न सा कथयितव्या, अकुशलभावनिबन्धनत्वादिति गाथार्थः / / 212 // यत्प्रकारा कथनीया तत्प्रकारामाह- श्रमणेन कथयितव्या, किंविशिष्टेत्याह- तपोनियमकथा अनशनादिपञ्चाश्रवविरमणादिरूपा, साऽपि विरागसंयुक्ता न निदानादिना रागादिसंगता, अत एवाह- यां कथां श्रुत्वा मनुष्यः- श्रोता व्रजति- गच्छति संवेयणिव्वेदं ति संवेगं निर्वेदं चेति गाथार्थः॥२१३॥कथाकथनविधिमाह- महार्थापिकथा अपरिक्लेशबहुला कथयितव्या, नातिविस्तरकथनेन परिक्लेशः कार्य इत्यर्थः, किमित्येवमित्यत आह-हंदीत्युपदर्शने महता चडकरत्वेन- अतिप्रपञ्चकथनेनेत्यर्थः किमित्याह- अर्थ कथा हन्ति-भावार्थं नाशयतीतिगाथार्थः // 214 // विधिशेषमाह-क्षेत्रं- भौतादिभावितं कालं-क्षीयमाणादिलक्षणं पुरुषं- पारिणामिकादिरूपं सामर्थ्य चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः श्रमणेन त्वनवद्यापापानुबन्धरहिता कथा कथयितव्या, नान्येति गाथार्थः ॥२१५॥उक्ता कथा, तदभिधानाद्गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं संजमे सुट्ठिअप्पाणं, विप्पमुक्काण ताइणं / तेसिमेयमणाइण्णं, निग्गंथाण महेसिणं॥सूत्रम् 1 // उद्देसियं कीयगडं, नियागमभिहडाणिय।राइभत्ते सिणाणे य, गंधमल्ले य वीयणे ॥सूत्रम् 2 //