________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 171 // तृतीयमध्ययनं | क्षुल्लिका चारकथा, नियुक्तिः |188-191 कथानिक्षेपे | अर्थकथा कथानकाचा षट्विंशल्लक्षणमाचारमिति सामर्थ्यागम्यते, यथास्थामं- यथासामर्थ्य यो ज्ञातव्योऽसौ वीर्याचारः आचाराचारवतोःकथञ्चिदव्यतिरेकादिति गाथार्थः॥ अभिहितो वीर्याचारः, तदभिधानाच्चाचार इति, साम्प्रतं कथामाह नि०- अत्थकहा कामकहा धम्मकहा चेव मीसिया य कहा। एत्तो एक्वेक्कावि यणेगविहा होइ नायव्वा // 188 // नि०- विजासिप्पमुवाओ अणिवेओ संचओ य दक्खत्तं / सामं दंडो भेओ उवप्पयाणं च अत्थकहा // 189 // नि०- सत्थाहसुओ दक्खत्तणेण सेट्ठीसुओ य रूवेणं। बुद्धीऍ अमच्चसुओ जीवइ पुन्नेहिं रायसुओ॥१९॥ नि०- दक्खत्तणयं पुरिसस्स पंचगंसइगमाहु सुंदेरं। बुद्धी पुण साहस्सा सयसाहस्साई पुन्नाई॥१९१॥ अर्थकथे ति विद्यादिरर्थस्तत्प्रधाना कथाऽर्थकथा, एवं कामकथा धर्मकथा चैव मिश्रा च कथा, अत आसां कथानां चैकैकापि च कथा अनेकविधा भवति ज्ञातव्येत्युपन्यस्तगाथार्थः / अधुनाऽर्थकथामाह- विद्याशिल्पं उपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपप्रदानं चार्थकथा, अर्थप्रधानत्वादित्यक्षरार्थः, भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदं-विजं पडुच्चऽत्थकहा जो विजाए अत्थं उवज्जिणति, जा एगेण विज्जा साहिया सा तस्स पंचयं पड़प्पभायं देइ, जहा वा सच्चइस्स विजाहरचक्कवट्टिस्स विजापभावेण भोगा उवणया, सच्चइस्स उप्पत्ती जहा य सहकुलेऽवत्थितो जहा य महेसरो नामं कयं एवं निरवसेसंजहावस्सए जोगसंगहेसुतहा भाणियव्वं वित्तिगयं / इयाणिं सिप्पेत्ति, सिप्पेणत्थो उवजिणइत्ति, एत्थ उदाहरणं कोक्कासोजहावस्सए, 0 विद्या प्रतीत्यार्थकथा यो विद्ययाऽर्थमुपार्जयति, यावदेकेन विद्या साधिता सा तस्मै पञ्चकं प्रतिप्रभातं ददाति, यथा वा सत्यकिनो विद्याधरचक्रवर्त्तिनो विद्याप्रभावेण भोगा उपनताः, सत्यकिन उत्पत्तिर्यथा च श्राद्धकुलेऽवस्थितो यथा च महेश्वरो नाम कृतम्, एतन्निरवशेषं यथाऽऽवश्यके योगसंग्रहेषु तथा भणितव्यम् विद्येति | गतम् / इदानीं शिल्पमिति, शिल्पेनार्थ उपाय॑ते इति, अत्रोदाहरणं कोकाशो यथाऽऽवश्यके। // 171 //