________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 170 // पशाचाराः। केयावन्ती लोगंसि विप्परामुसन्ती' त्यत्राचारसूत्रे यावन्तः केचन लोके- अस्मिन् पाखण्डिलोके विपरामृशन्तीत्येवं-तृतीयमध्ययनं विधार्थाभिधाने अवन्तिजनपदे केया-रज्जुर्वान्ता-पतितालोकः परामृशति कूप इत्याह, उभयभेदस्तु द्वयोरपियाथात्म्योपमर्दैन / क्षुल्लिका चारकथा, यथा-'धर्मो मङ्गलमुत्कृष्टः अहिंसा पर्वतमस्तक' इत्यादि, दोषश्चात्र व्यञ्जनभेदेऽर्थभेदस्तद्भेदे क्रियाया भेदस्तद्भेदे नियुक्तिः मोक्षाभावस्तदभावे च निरर्थिका दीक्षेति, उदाहरणं चात्रान्धीयतां कुमार इति सर्वत्र योजनीयम्, क्षुण्णत्वादनुयोगद्वारेषु / | 181-187 चोक्तत्वान्नेह दर्शितमिति / अष्टविधः- अष्टप्रकारः कालादिभेदद्वारेण ज्ञानाचारो- ज्ञानासेवनाप्रकार इति गाथार्थः // उक्तो ज्ञानाचारः, साम्प्रतं चारित्राचारमाह-प्रणिधानं- चेतःस्वास्थ्यं तत्प्रधाना योगा- व्यापारास्तैर्युक्तः-समन्वितः प्रणिधानयोगयुक्तः, अयं चौघतोऽविरतसम्यग्दृष्टिरपि भवत्यत आह- पञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिर्यः प्रणिधानयोगयुक्तः, एतद्योगयुक्त एतद्योगवानेव, अथवा पञ्चसु समितिसु तिसृषु गुप्तिष्वस्मिन् विषये- एता आश्रित्य प्रणिधानयोगयुक्तो य एष: चारित्राचारः, आचाराचारवतोः कथंचिदव्यतिरेकादष्टविधो भवति ज्ञातव्यः, समितिगुप्तियोगभेदात्, समितिगुप्तिरूपं च शुभं प्रवीचाराप्रवीचाररूपं यथा प्रतिक्रमणे इति गाथार्थः॥उक्तश्चारित्राचारः, साम्प्रतं तपआचारमाह- द्वादशविधेऽपि तपसिप्रथमाध्ययनोक्तस्वरूपे साभ्यन्तरबाह्येऽनशनादिप्रायश्चित्तादिलक्षणे कुशलदृष्टे- तीर्थकरोपलब्धे अग्लान्या न राजवेष्टिकल्पेन यथाशक्त्या वा अनाजीविको- निःस्पृहःफलान्तरमधिकृत्य यो ज्ञातव्योऽसौ तपआचारः, आचारतद्वतोरभेदादिति गाथार्थः॥ उक्तस्तपआचारः, अधुना वीर्याचारमाह- अनिगूहितबलवीर्यः- अनिह्नतबाह्याभ्यन्तरसामर्थ्यः सन् पराक्रमते-चेष्टते यो यथोक्तं षट्त्रिंशल्लक्षणमाचारमाश्रित्येति वाक्यशेषः, षट्विंशद्विधत्वं चाचारस्य ज्ञानदर्शनचारित्राचाराणामष्टविधत्वात्तपआचारस्य च द्वादशविधत्वाच्चेति, उपयुक्त इत्यनन्यचित्तः, पराक्रमते ग्रहणकाले, तत ऊर्ध्वं युनक्ति च योजयति च-प्रवर्तयति च यथोक्तं // 170 //