SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 163 // दर्शनं सम्यग्दर्शनमुच्यते, न चक्षुरादिदर्शनम्, तच्च क्षायोपशमिकादिरूपत्वाद्भाव एव, ततश्च तदाचरणं दर्शनाचार इत्येवं तृतीयमध्ययनं शेषेष्वपि योजनीयम्,भावार्थं तु वक्ष्यति- एष भावाचारः पञ्चविधो भवति ज्ञातव्यः, इतिगाथाक्षरार्थः। अधुना भावार्थ उच्यते क्षुल्लिका चारकथा, तत्र 'यथोद्देशं निर्देश' इत्यादौ दर्शनाचारभावार्थः, दर्शनाचारश्चाष्टधा, तथा चाह गाथा- निस्संकी त्यादि, निःशङ्कित इत्यत्र नियुक्तिः शङ्का शङ्कितं निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जीवत्वे कथमेको 181-187 पश्चाचाराः। भव्योऽपरस्त्वऽभव्य इति शङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात्सकलमेवेदं परिकल्पितं भविष्यतीति, न पुनरालोचयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तञ्च- बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाशिणाम्। अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः॥१॥ दृष्टेष्टाविरुद्धश्चेति, उदाहरणंचात्र पेयापेयकौ यथाऽऽवश्यके, ततश्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्राधान्यविवक्षया दर्शनाचार उच्यते, अनेन दर्शनदर्शनिनोरभेदमाह, तदेकान्तभेदे त्वदर्शनिन इव तत्फलाभावात् मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्येति 1 तथा निष्कासितो- देशसर्वकाङ्कारहितः, तत्र देशकाङ्क्षा एकं दर्शनं काङ्क्षति दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोचयति षड्जीवनिकायपीडामसत्प्ररूपणां च, उदाहरणंचात्र राजामात्यौ यथाऽऽवश्यक इति २।विचिकित्सा-मतिविभ्रमः निर्गता विचिकित्सा-मतिविभ्रमो यतोऽसौ / निर्विचिकित्सः,साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतोममास्मात्फलं भविष्यति न भविष्यतीति?, क्रियायाः कृषीवलादिषूभयोपलब्धेरिति विकल्परहितः,न ह्यविकल्प उपाय उपयवस्तुपरिप्रापको न भवतीति सञ्जातनिश्चयो निर्विचिकित्स उच्यते / एतावताउंशेन निःशङ्किताद्भिन्नः, उदाहरणं चात्र विद्यासाधको यथाऽऽवश्यक इति, यद्वा निर्विज्जुगुप्सः- साधुजुगुप्सारहितः, // 163 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy