________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 161 // तृतीयमध्ययन क्षुल्लिकाचारकथा, नियुक्तिः 178-180 अभिसम्बन्धोमहत्क्षुल्लकाचार कथाशब्दानां निक्षेपाः। तस्यैव प्रधानत्वात्, कालतः पारिणामिकः, जीवत्वाजीवत्वपरिणामस्यानाद्यपर्यवसितत्वान्न कदाचिजीवा अजीवतया परिणमन्ते अजीवाश्च जीवतयेति, आश्रयतस्त्वौदयिकः, प्रभूत (संसारि) सत्त्वाश्रयत्वात् सर्वसंसारिणामवासौ विद्यत इति, एतेषां अनन्तरोदितानां महतां प्रतिपक्षे क्षुल्लकानि भवन्ति, अभिधेयवल्लिङ्गवचनानि भवन्ती ति न्यायात् यथार्थ क्षुल्लकलिङ्गवचनमिति, तत्र नामस्थापने क्षुण्णे, द्रव्यक्षुल्लकः परमाणुः, द्रव्यं चासौ क्षुल्लकश्चेति, क्षेत्रक्षुल्लक आकाशप्रदेशः, कालक्षुल्लकः / समयः, प्रधानक्षुल्लकं त्रिविधं- सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधं- द्विपदचतुष्पदापदभेदात्, द्विपदेषु क्षुल्लकाः प्रधानाश्चानुत्तरसुराः, शरीरेषु क्षुल्लकमाहारकम्, चतुष्पदेषु प्रधानः क्षुल्लकश्च सिंहः, अपदेषु जातिकुसुमानि, अचित्तेषु वज्रं प्रधानं क्षुल्लकं च, मिश्रेष्वनुत्तरसुरा एव शयनीयगता इति, प्रतीत्यक्षुल्लकं तु कपित्थं प्रतीत्य बिल्वं क्षुल्लकं बिल्वं प्रतीत्यामलकमित्यादि, भावक्षुल्लकस्तु क्षायिको भावः स्तोकजीवाश्रयत्वादितिगाथार्थः / इत्थं क्षुल्लकनिक्षेपमभिधायाधुना प्रकृतयोजनापुरःसरमाचारनिक्षेपमाह- प्रतीत्य यत् क्षुल्लकमुपदिष्टं तेनात्राधिकारः, यतो महतीखल्वाचारकथा धर्मार्थकामाध्ययनं तदपेक्षया क्षुल्लिकेयमिति // आचारस्य तु चतुष्को निक्षेपः, स चायं- नामाचारः स्थापनाचारो द्रव्याचारो भावाचारश्च बोद्धव्य इति गाथाक्षरार्थः ॥भावार्थं तु वक्ष्यति, तत्र नामस्थापने क्षुण्णे, अतो द्रव्याचारमाह- नामनधावनवासनशिक्षापनसुकरणाविरोधीनि द्रव्याणि यानि लोके तानि द्रव्याचारं विजानीहि। अयमत्र भावार्थ:- आचरणं आचारः द्रव्यस्याचारो द्रव्याचारः, द्रव्यस्य यदाचरणं तेन तेन प्रकारेण परिणमनमित्यर्थः, तत्र नामनमवनतिकरणमुच्यते, तत्प्रति द्विविधं द्रव्यं भवति- आचारवदनाचारवच्च, तत्परिणामयुक्तमयुक्तं चेत्यर्थः, तत्र तिनिशलतादि आचारवत्, एरण्डाद्यनाचारवत्, एतदुक्तं भवतितिनिशलताद्याचरति तं भावं-तेन रूपेण परिणमति न त्वरण्डादि, एवं सर्वत्र भावना कार्या, नवरमुदाहरणानि प्रदर्श्यन्ते // 161 //