________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 160 // शब्दानां ॥अथ तृतीयमध्ययनं क्षुल्लिकाचारकथाख्यम् // तृतीयमध्ययनं व्याख्यातं श्रामण्यपूर्वकाध्ययनमिदानीं क्षुल्लिकाचारकथाख्यमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मा क्षुल्लिका चारकथा, भ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्युक्तम्, इह तु सा धृतिराचारे कार्या नियुक्तिः नत्वनाचारे, अयमेवात्मसंयमोपाय इत्येतदुच्यते, उक्तञ्च- तस्यात्मा संयतो यो हि, सदाचारे रतः सदा / स एव धृतिमान् धर्म- 178-180 अभिसम्बन्धोस्तस्यैव च जिनोदितः॥१॥ इत्येनेनाभिसम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत्, नामनिष्पन्ने निक्षेपे महत्क्षुल्लकाक्षुल्लिकाचारकथेति नाम, तत्र क्षुल्लकनिक्षेपः कार्यः, आचारस्य कथायाश्च, महदपेक्षयाच क्षुल्लकमित्यतश्चित्रन्यायप्रदर्शनार्थ- चार कथामपेक्षणीयमेव महदभिधित्सुराह निक्षेपाः। नि०-नामंठवणादविए खेत्तेकाले पहाण पइभावे / एएसि महंताणं पडिवक्खे खड्डया होंति // 178 // नि०- पइखुड्डएण पगयं आयारस्स उचउक्कनिक्खेवो। नामंठवणादविए भावायारे य बोद्धव्वे॥१७९॥ नि०- नामणधावणवासणसिक्खावणसुकरणाविरोहीणि। दव्वाणि जाणि लोए दव्वायारं वियाणाहि॥१८॥ नाममहन्महदिति नाम, स्थापनामहन्महदिति स्थापना, द्रव्यमहानचित्तमहास्कन्धः, क्षेत्रमहल्लोकालोकाकाशम्, काल-2 महानतीतादिभेदः सम्पूर्ण:कालः, प्रधानमहत्त्रिविधं- सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधं द्विपदचतुष्पदापदभेदात्, तत्र द्विपदानांतीर्थकरः प्रधानः, चतुष्पदानां हस्ती, अपदानां पनसः, अचित्तानां वैडूर्यरत्नं मिश्राणां तीर्थकर एव वैडूर्यादि- 10 // विभूषितः प्रधान इत्यत एव चैतेषां महत्त्वमिति, प्रतीत्यमहद् आपेक्षिकम्, तद्यथा- आमलकं प्रतीत्य महत् बिल्वं बिल्वं प्रतीत्य कपित्थमित्यादि, भावमहत्रिविधं- प्राधान्यतः कालत आश्रयतश्चेति, प्राधान्यतः क्षायिको महान् मुक्तिहेतुत्वेन