________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 159 // द्वितीयमध्ययनं श्रामण्यपूर्वकम्, सूत्रम् 8-11 संयमस्थैर्योपदेशः रथनेमिबोध:नूपुरपण्डितोदाहरणम्। हत्थित्ति।दार्टान्तिकयोजना कृतैवेति सूत्रार्थः॥१०॥एवं कुर्वन्ति संबुद्धा बुद्धिमन्तो बुद्धाः सम्यग्दर्शनसाहचर्येण दर्शनैकीभावेन वा बुद्धाःसंबुद्धा- विदितविषयस्वभावाः, सम्यग्दृष्टय इत्यर्थः, त एव विशेष्यन्ते- पण्डिताः प्रविचक्षणाः, तत्र पण्डिताःसम्यग्ज्ञानवन्तः प्रविचक्षणा:- चरणपरिणामवन्तः, अन्ये तु व्याचक्षते-संबुद्धाःसामान्येन बुद्धिमन्तः पण्डिता वान्तभोगासेवनदोषज्ञाः प्रविचक्षणा अवद्यभीरव इति, किं कुर्वन्ति?- विनिवर्तन्ते भोगेभ्यः विविधं-अनेकैः प्रकारैरनादिभवाभ्यासबलेन कदर्थ्यमाना अपि मोहोदयेन (वि) निवर्तन्ते भोगेभ्यो-विषयेभ्यः, यथा क इत्यत्राह- यथाऽसौ पुरुषोत्तमः रथनेमिः / आहकथं तस्य पुरुषोत्तमत्वम्, यो हि प्रव्रजितोऽपि विषयाभिलाषीति?, उच्यते, अभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्त्वभिलाषानुरूपं चेष्टत एवेति। अपरस्त्वाह-दशवैकालिकं नियतश्रुतमेव, यत उक्तं- णायज्झयणाहरणा इसिभासियमो पइन्नयसुया य। एए होंति अणियया णिययं पुण सेसमुस्सन्नं ॥१॥तत्कथमभिनवोत्पन्नमिदमुदाहरणं युज्यते इति?, उच्यते, एवम्भूतार्थस्यैव नियतश्रुतेऽपि भावाद्, उत्सन्नग्रहणाच्चादोषः, प्रायो नियतं न तु सर्वथा नियतमेवेत्यर्थः / ब्रवीमीति न स्वमनीषिकया किन्तु तीर्थकरगणधरोपदेशेन / उक्तोऽनुगमो, नयाः पूर्ववदिति // इत्याचार्यश्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां द्वितीय श्रामण्यपूर्वकाध्ययनं सम्पूर्णम् // 2 // ॥सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वत्तौ द्वितीयमध्ययनं श्रामण्यपूर्वकाख्यं समाप्तमिति // // 159 (r) दर्शनपरिणाम० (प्र०)। 0 ज्ञाताध्ययनाहरणानि ऋषिभाषितानि प्रकीर्णकश्रुतं च / एतानि भवन्ति अनियतानि नियतं पुनः शेषमुत्सन्नं (प्रायः) // 1 //