SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ दाहरणं च। श्रीदशचायं बाह्यविधिमन्तरेण कर्तुं शक्यते अतस्तद्विधानार्थमाह द्वितीयमध्ययनं| वैकालिक श्रीहारि० श्रामण्य____ आयावयाहि चय सोगमल्लं, कामे कमाही कमियंखुदुक्खं। छिंदाहि दोसं विणएज रागं, एवं सुही होहिसि संपराए।सूत्रम् 5 // पूर्वकम्, वृत्तियुतम् | संयमगेहान्मनसोऽनिर्गमनार्थं आतापय आतापनांकुरु, एकग्रहणे तज्जातीयग्रहणमिति न्यायाद्यथानुरूपमूनोदरतादेरपि विधिः, |सूत्रम् 5-6 // 152 // अनेनात्मसमुत्थदोषपरिहारमाह, तथा त्यज सौकुमार्य परित्यज सुकुमारत्वम्, अनेन तूभयसमुत्थदोषपरिहारम्, तथाहि संयमस्थैर्यो पदेशः सौकुमार्यात्कामेच्छा प्रवर्तते योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन कामान् प्राग्निरूपितस्वरूपान् क्राम उल्लङ्घय, रथनेम्युयतस्तैः क्रान्तैःक्रान्तमेव दुःखम्, भवति इति शेषः, कामनिबन्धनत्वाद्दुःखस्य, खुशब्दोऽवधारणे, अधुनाऽऽन्तरकामक्रमणविधिमाह-छिन्द्धि द्वेष व्यपनय रागं सम्यग्ज्ञानबलेन विपाकालोचनादिना, क्व?, कामेष्विति गम्यते, शब्दादयो हि विषया एव कामा इतिकृत्वा / एवं कृते फलमाह- एवं अनेन प्रकारेण प्रवर्तमानः, किं?- सुखमस्यास्तीति सुखी भविष्यसि, क्व?-8 संपराये संसारे, यावदपवर्गं न प्राप्स्यसि तावत्सुखी भविष्यसि, 'संपराये' परीषहोपसर्गसंग्राम इत्यन्ये। कृतं प्रसङ्गेनेति सूत्रार्थः // 5 // किं च संयमगेहान्मनस एवानिर्गमनार्थमिदं चिन्तयेत्, यदुत पक्खंदे जलियं जोई, धूमकेउंदुरासयं / नेच्छन्ति वंतयं भोत्तुं, कुले जाया अगंधणे॥सूत्रम् 6 // 9 प्रस्कन्दन्ति अध्यवस्यन्ति ज्वलितं ज्वालामालाकुलं न मुर्मुरादिरूपम्, कं?, ज्योतिषं अग्निं धूमकेतुं धूमचिह्न धूमध्वज नोल्कादिरूपं दुरासदं दुःखेनासाद्यतेऽभिभूयत इति दुरासदस्तम्, दुरभिभवमित्यर्थः, चशब्दलोपात् न चेच्छन्ति- न चल वाञ्छन्ति वान्तं भोक्तुं परित्यक्तमादातुम्, विषमिति गम्यते, के?- नागा इति गम्यते, किंविशिष्टा इत्याह- कुले जाताः // 152 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy