SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 141 // वशस्य गाथार्थः // 171 / / अधुना पद्यमाह- पद्यं तु, तुशब्दो विशेषणार्थः, भवति त्रिविधं त्रिप्रकारम्, सममर्धसमंच नाम विषमंच, द्वितीयमध्ययन कैः सममित्यादि?, अत्राह- पादैरक्षरैश्च, पादैश्चतुःपादादिभिरक्षरैः गुरुलघुभिः, अन्ये तु व्याचक्षते- समं यत्र चतुर्ध्वपि / पूर्वकम्, पादेषु समान्यक्षराणि, अर्धसमं यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च समान्यक्षराणि, विषमंतु सर्वपादेष्वेव विषमाक्षरमित्येवं सूत्रम् 1 विधिज्ञाः छन्दःप्रकारज्ञाः कवयो ब्रुवत इति गाथार्थः॥ 172 // अधुना गेयमाह- तन्त्रीसमं तालसमं वर्णसमं ग्रहसमं लयसमं च सङ्कल्पकाव्यं तु भवति, तुशब्दोऽवधारणार्थ एव, गीयत इति गेयम्, पञ्चविधं उक्तैर्विधिभिः गीतसंज्ञायां गेयाख्यायाम्, तत्र तन्त्रीसमं असमर्थत्वम्। वीणादितन्त्रीशब्देन तुल्यं मिलितं च, एवं तालादिष्वपि योजनीयम्, नवरं ताला- हस्तगमाः, वर्णा- निषादपञ्चमादयः, नियुक्तिः ग्रहा- उत्क्षेपाः, प्रारम्भरसविशेषा इत्यन्ये, लयाः- तन्त्रीस्वनविशेषाः। तत्थ किल कोणएण तंती छिप्पड़ तओ णहेहि 169-174 भावपदं अणुमजिज्जइ, तत्थ अण्णारिसो सरो उढेइ, सो लयो त्ति गाथार्थः // 173 // साम्प्रतं चौर्ण पदमाह- अर्थो बहुलो ग्रथितपदं च। यस्मिँस्तदर्थबहुलं क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः, क्वचिद्विभाषा क्वचिदन्यदेव। विधेर्विधानं बहुधा समीक्ष्य, चतुर्विधं बाहुलकं वदन्ति॥ 1 // ततश्चैभिः प्रकारैर्बह्वर्थम्, महान्- प्रधानो हेयोपादेयप्रतिपादकत्वेनार्थो यस्मिँस्तन्महार्थम्, हेतुनिपातोपसर्गर्गभीरं तत्रान्यथाऽनुपपत्तिलक्षणो हेतुः, यथा-मदीयोऽयमश्वो विशिष्टचिह्नोपलक्षितत्वात्, चवाखल्वादयो निपाताः, पर्युतसमवादय उपसर्गाः, एभिरगाधम्, बहुपादं अपरिमितपादं अव्यवच्छिन्नं श्लोकवद्विरामरहितम्, गमनयैः शुद्धम्, गमाः- तदक्षरोच्चारणप्रवणा भिन्नार्थाः, यथा इह खलु छज्जीवणिया० कयरा खलु सा छज्जीवणिया० इत्यादि, नया:- नैगमादयः प्रतीताः, तुरवधारणे, // 141 // गमनयशुद्धमेव चौर्णं पदं ब्रह्मचर्याध्ययनपदवदिति गाथार्थः॥ 174 // उक्तं ग्रथितम्, प्रकीर्णकं लोकादवसेयम्, उक्तं Oतत्र किल कोणकेन तन्त्री स्पृश्यते, ततो नखैरनुमृद्यते, तत्रान्यादृशः स्वर उत्तिष्ठते, स लय इति / 0 इह खलु षड्जीवनिका० कतरा खलु सा षड्जीवनिका०।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy