________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 140 // अतोऽन्यत्प्रकीर्णकं-प्रकीर्णककथोपयोगिज्ञानपदमित्यर्थः, ग्रथितं चतुष्प्रकारं गद्यादिभेदात्, प्रकीर्णकं भवत्यनेकविधम्, उक्तलक्षणत्वादेवेति गाथार्थः / / 169 // ग्रथितमभिधातुकाम आह नि०- गजं पलं गेयं चुण्णं च चउव्विहं तु गहियपयं। तिसमुट्ठाणं सव्वं इइ बेंति सलक्खणा कइणो॥१७०॥ नि०- महुरं हेउनिजुत्तं गहियमपायं विरामसंजुत्तं। अपरिमियं चऽवसाणे कव्वंगजं ति नायव्वं // 171 // नि०- पजंतु होइ तिविहं सममद्धसमंच नाम विसमंच। पाएहिँ अक्खरेहिँ य एव विहिण्णू कई बेंति // 172 / / नि०- तंतिसमंतालसमं वण्णसमंगहसमंलयसमंच। कव्वं तु होइ गेयं पंचविहंगीयसन्नाए॥१७३॥ नि०-अत्थबहुलं महत्थं हेउनिवाओवसग्गगंभीरं / बहुपायमवोच्छिन्नंगमणयसुद्धं च चुण्णपयं / / 174 ॥नोअवराहपयं गयं। गद्यं पद्यं गेयं चौर्णं च चतुर्विधमेव ग्रथितपदम्, एभिरेव प्रकारैर्ग्रथनात्, एतच्च त्रिभ्यो धर्मार्थकामेभ्यः समुत्थानं- तद्विषयत्वेनोत्पत्तिरस्येति त्रिसमुत्थानं सर्वं निरवशेषम्, आह- एवं मोक्षसमुत्थानस्य गद्यादेरभावप्रसङ्गः, न, तस्य धर्मसमुत्थान एवान्त र्भावात्, धर्मकार्यत्वादेव मोक्षस्येति, लौकिकपदलक्षणमेवैतदित्यन्ये, अतस्त्रिसमुत्थानं सर्वम्, 'इई' एवं ब्रुवते सलक्षणा लक्षणज्ञाःकवय इति गाथार्थः॥१७०॥गद्यलक्षणमाह- मधुरं सूत्रार्थोभयैः श्रव्यं हेतुनियुक्तं सोपपत्तिकं ग्रथितं बद्धमानुपूर्व्या अपादं विशिष्टच्छन्दोरचनायोगात्पादवर्जितं विरामः- अवसानंतत्संयुक्तमर्थतो न तु पाठतः इत्येके, जहा जिणवरपादारविंदसंदाणिउरुणिम्मल्लसहस्स एवमादि असमाणिउंन चिट्ठइत्ति, यतिविशेषसंयुक्तं अन्ये, अपरिमितं चावसाने बृहद्भवतीत्येके, अन्ये त्वपरिमितमेव भवति बृहदित्यर्थः, अवसाने मृदु पठ्यत इति शेषः, काव्यं गद्यम्, इति एवं प्रकारम्, ज्ञातव्यमिति (r) यथा जिनवरपादारविन्दसंदानितोरुनिर्मलसहस्र एवमाद्यसमाप्य न तिष्ठति / द्वितीयमध्ययनं श्रामण्यपूर्वकम्, सूत्रम् सङ्कल्पवशस्य असमर्थत्वम्। नियुक्तिः 169-174 भावपदं ग्रथितपदं च। // 140 //