________________ श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 137 // सङ्कल्प वशस्य नि०- नामंठवणाकामा दव्वकामा य भावकामा य। एसोखलु कामाणं निक्खेवो चउविहो होइ॥१६१॥ द्वितीयमध्ययन नामस्थापनाकामा इत्यत्र कामशब्दः प्रत्येकमभिसंबध्यते, द्रव्यकामाश्च भावकामाश्च, चशब्दौ स्वगतानेकभेदसमुच्चयार्थी, |श्रामण्य पूर्वकम्, एष खलु कामानां निक्षेपश्चतुर्विधो भवतीति गाथार्थः // 161 // तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यकामान् प्रतिपादयन्नाह | सूत्रम् नि०-सहरसरूवगंधाफासा उदयंकराय जे दव्वा। दुविहा य भावकामा इच्छाकामा मयणकामा॥१६२॥ शब्दरसरूपगन्धस्पर्शा मोहोदयाभिभूतैः सत्त्वैः काम्यन्त इति कामाः, मोहोदयकारीणि च यानि द्रव्याणि संघाटकविकट असमर्थत्वम्। मांसादीनि तान्यपि मदनकामाख्यभावकामहेतुत्वाव्यकामा इति, भावकामानाह- द्विविधाश्च द्विप्रकाराश्च भावकामाः, नियुक्तिः इच्छाकामा मदनकामाश्च, तत्रैषणमिच्छा सैव चित्ताभिलाषरूपत्वात्कामा इतीच्छाकामाः, मदयतीति तथा मदन:- चित्रो 161-164 कामशब्दस्यमोहोदयः स एव कामप्रवृत्तिहेतुत्वात्कामा मदनकामा इति गाथार्थः // 162 // इच्छाकामान् प्रतिपादयति | निक्षेपाः। नि०- इच्छा पसत्थमपसत्थिगा यमयणमि वेयउवओगो। तेणहिगारो तस्स उ वयंति धीरा निरुत्तमिणं॥१६३॥ इच्छा प्रशस्ता अप्रशस्ता च, अनुस्वारोऽलाक्षणिकः सुखमुखोच्चारणार्थः, तत्र प्रशस्ता धर्मेच्छा मोक्षेच्छा, अप्रशस्ता युद्धेच्छा राज्येच्छा, उक्ता इच्छाकामाः, मदनकामानाह- मदने इति उपलक्षणार्थत्वान्मदनकामे निरूप्ये कोऽसावित्यत आह- वेदोपयोगः वेद्यत इति वेदः- स्त्रीवेदादिस्तदुपयोगः- तद्विपाकानुभवनम्, तद्व्यापार इत्यन्ये, यथा स्त्रीवेदोदयेन च पुरुषं प्रार्थयत इत्यादि, तेनाधिकार इति मदनकामेन, शेषा उच्चारितसदृशा इति प्ररूपिताः, तस्य तु मदनकामस्य वदन्ति // 137 // धीराः तीर्थकरगणधरा निरुक्तम्, इदं वक्ष्यमाणलक्षणमिति गाथार्थः॥ 163 // नि०-विसयसुहेसु पसत्तं अबुहजणं कामरागपडिबद्ध। उक्कामयंति जीवं धम्माओ तेण ते कामा॥१६४॥