________________ द्वितीयमध्ययन श्रामण्य श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 136 // पूर्वकम्, सूत्रम् 1 सङ्कल्पवशस्य असमर्थत्वम्। अपेक्षया चान्यथाऽप्यदोषः, कालपूर्वं पूर्वः कालः शरदः प्रावृट् रजन्या दिवस इत्यादि आवलिकाया वा समय इत्यादि, दिक्पूर्वं पूर्वा दिग्, इयं च रुचकापेक्षया, तापक्षेत्रपूर्व- आदित्योदयमधिकृत्य यत्र या पूर्वा दिक्, उक्तं च- जस्स जओ आदिचो उदेइ सा तस्स होइ पुवदिसा इत्यादि, प्रज्ञापकापूर्व- प्रज्ञापन(क) प्रतीत्य पूर्वा दिक् यदभिमुख एवासौ सैव पूर्वा, पूर्वपूर्वं चतुर्दशानांपूर्वाणामाद्यम्, तच्च उत्पादपूर्वम्, एवं वस्तुप्राभृतातिप्राभृतेष्वपि योजनीयम्, अप्रत्यक्षस्वरूपाणि चैतानि, भावपूर्व- आद्यो भावः स चौदयिक इति गाथार्थः॥ 160 // उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं कहं नु कुजा सामण्णं, जो कामे न निवारए। पए पए विसीदंतो, संकप्पस्स वसंगओ? // सूत्रम् 1 // इह च संहितादिक्रमेण प्रतिसूत्रं व्याख्याने ग्रन्थगौरवमिति तत्परिज्ञाननिबन्धनं भावार्थमात्रमुच्यते-तत्रापिकत्यहं कदाहं कथमहमित्याद्यदृश्यपाठान्तरपरित्यागेन दृश्यं व्याख्यायते- कथं नु कुर्याच्छ्रामण्यं यः कामान्न निवारयति? 'कथं केन प्रकारेण, नु क्षेपे, यथा कथं नु स राजा यो न रक्षति?, कथं नु स वैयाकरणो योऽपशब्दान् प्रयुङ्क्ते एवं कथं नु स कुर्यात् 'श्रामण्यं' श्रमणभावं यः कामान् ‘न निवारयति' न प्रतिषेधते?, किमिति न करोति?, तत्र निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम् इति वचनात् कारणमाह- पदे पदे विषीदन् संकल्पस्य वशं गतः कामानिवारणेनेन्द्रियाद्यपराधपदापेक्षया पदे पदे विषीदनात्संकल्पस्य वशंगतत्वात्। (अप्रशस्ताध्यवसाय:संकल्पः) इति सूत्रसमासार्थः॥१॥ अवयवार्थं तु सूत्रस्पर्शनिर्युक्त्या प्रतिपादयति-तत्रापि शेषपदार्थान् परित्यज्य कामपदार्थस्य हेयतयोपयोगित्वात्स्वरूपमाह 0 यस्य यत आदित्य उदेति सा तस्य भवति पूर्वदिग्। 0 पूर्ववृत्तौ दर्शनेऽप्यादर्शेषु दृश्यमानेष्वदृश्यमानता।