________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 135 // नि०- पव्वइए अणगारे पासंडे चरग तावसे भिक्खू / परिवाइए य समणे निग्गंथे संजए मुत्ते॥१५८॥ द्वितीयमध्ययनं प्रकर्षण व्रजितो- गतःप्रव्रजितः, आरम्भपरिग्रहादिति गम्यते, अगारं- गृहं तदस्यास्तीत्यगारो गृही न अगारोऽनगारः, श्रामण्य पूर्वकम्, द्रव्यभावगृहरहित इत्यर्थः, पाखण्डं- व्रतं तदस्यास्तीति पाखण्डी, उक्तं च- पाखण्डं व्रतमित्याहुस्तद्यस्यास्त्यमलं भुवि। सड नियुक्तिः 158 पाखण्डी वदन्त्यन्ये, कर्मपाशाद्विनिर्गतः(तम्) // 2 // चरतीति चरकस्तप इति गम्यते, तपोऽस्यास्तीति तापसः, भिक्षणशीलो श्रमणस्य पर्यायशब्दाः। भिक्षुः भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः, परिसमन्तात्पापवर्जनेन व्रजति- गच्छतीति परिव्राजकः, चः समुच्चये, श्रमणः नियुक्तिः पूर्ववत्, निर्गतो ग्रन्थानिर्ग्रन्थः बाह्याभ्यन्तरग्रन्थरहित इत्यर्थः, सं- एकीभावेनाहिंसादिषु यतः- प्रयत्नवान् संयतः, मुक्तो |159-160 श्रमणबाह्याभ्यन्तरेण ग्रन्थेनैवेति गाथार्थः // 158 // पर्यायाःनि०-तिन्ने ताई दविए मुणी यखंते य दन्त विरए य / लूहे तीरहेऽविय हवंति समणस्स नामाइं॥१५९॥ पूर्वशब्दस्य च तीर्णवांस्तीर्णः, संसारमिति गम्यते, त्रायत इति त्राता, धर्मकथादिना संसारदुःखेभ्य इति भावः, रागादिभावरहितत्वाइव्यम्, त्रयोदश विधनिक्षेपाः। द्रवति- गच्छति ताँस्तान् ज्ञानादिप्रकारानिति द्रव्यम्, मुनिः पूर्ववत्, चः समुच्चये, क्षाम्यतीति क्षान्तः- क्रोधविजयी, एवमिन्द्रियादिदमनाद्दान्तः, विरतः- प्राणातिपातादिनिवृत्तः, स्नेहपरित्यागाद्रूक्षः, तीरेणार्थोऽस्येति तीरार्थी, संसारस्येति गम्यते, तीरस्थो वा सम्यक्त्वादिप्राप्तेः संसारपरिमाणात्, एतानि भवन्ति श्रमणस्य नामानि अभिधानानीति गाथार्थः // 159 // निरूपितः श्रमणशब्दः, अधुना पूर्वशब्दश्चिन्त्यते- अस्य च त्रयोदशविधो निक्षेपः, तथा चाह नि०- णामं ठवणा दविए खेत्ते काले दिसि तावखेत्ते य / पन्नवगपुव्ववत्थू पाहुडअइपाहुडे भावे॥१०॥ नामस्थापने क्षुण्णे, द्रव्यपूर्वम् अङ्कराद्वीजंदध्नः क्षीरं फाणिताद्रस इत्यादि, क्षेत्रपूर्व यवक्षेत्राच्छालिक्षेत्रम्, तत्पूर्वकत्वात्तस्य, / / // 135 //