________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 133 // द्वितीयमध्ययनं श्रामण्यपूर्वकम्, नियुक्तिः 153-157 श्रमणनिक्षेपाः। नामादिक्रमेण, नामस्थापने पूर्ववत्, द्रव्यश्रमणो द्विधा- आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽभिलापभेदेन द्रुमवदवसेयः,तंचानेनोपलक्षयति- दव्वे सरीरभविउत्ति / भावश्रमणोऽपि द्विविध एव- आगमतो ज्ञातोपयुक्तः नोआगमतस्तु चारित्रपरिणामवान् यतिः, तथा चाह- भावतस्तु संयतः श्रमण इति गाथार्थः॥ 153 // अस्यैव स्वरूपमाह नि०- जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं / न हणइ न हणावेइ यसममणई तेण सोसमणो॥१५४॥ यथा मम न प्रियं दुःखम्, प्रतिकूलत्वात्, ज्ञात्वैवमेव सर्वजीवानां दुःखप्रतिकूलत्वं न हन्ति स्वयं न घातयत्यन्यैः, चशब्दाद् घ्नन्तं च नानुमन्यतेऽन्यम्, इत्यनेन प्रकारेण समं अणति- तुल्यं गच्छति यतस्तेनासौ श्रमण इति गाथार्थः // 154 // नि०- नत्थिय सि कोइवेसो पिओ व सव्वेसुचेवजीवेसु। एएण होइ समणो एसो अन्नोऽविपजाओ॥१५५॥ | नास्ति च सि तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, तुल्यमनस्त्वात्, एतेन भवति सममनाः, समं मनोऽस्येति सममनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः॥१५५। नि०- तो समणो जइ सुमणोभावेण य जइ न होइ पावमणो।सयणे यजणे यसमो समोय माणावमाणेसु // 156 // ततः श्रमणो यदि सुमनाः, द्रव्यमनः प्रतीत्य, भावेन च यदि न भवति पापमनाः, एतत्फलमेव दर्शयति-स्वजने च जने च समः, समश्च मानापमानयोरिति गाथार्थः॥१५६॥ नि०- उरगगिरिजलणसागरनहयलतरुगणसमोय जो होई। भमरमिगधरणिजलरुहरविपवणसमोजओ समणो॥१५७॥ उरगसमः परकृतबिलनिवासित्वादाहारानास्वादनात्संयमैकदृष्टित्वाच्च, गिरिसमः परीषहपवनाकम्प्यत्वात्, ज्वलनसमः // 133 //