SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 132 // ॥अथ द्वितीयमध्ययनं श्रामण्यपूर्वकाख्यम्॥ द्वितीयमध्ययनं व्याख्यातंद्रुमपुष्पिकाध्ययनम्, अधुना श्रामण्यपूर्वकाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने धर्मप्रशंसो |श्रामण्य पूर्वकम्, क्ता, सा चेहैव जिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्य नियुक्ति: 152 मित्येतदुच्यते, उक्तं च-जस्स धिई तस्स तवो जस्स तवो तस्स सुग्गई सुलभा। जे अधिइमंत पुरिसा तवोऽवि खलु दुल्लहो तेसिं श्रामण्य॥१॥ अनेनाभिसंबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत्, नवरं नामवदध्ययनविषयत्वादुपक्रमादि - पूर्वकस्य च द्वारकलापस्य व्याप्तिप्राधान्यतो नामनिष्पन्नं निक्षेपमभिधित्सुराह नियुक्तिकारः निक्षेपः। नि०-सामण्णपुव्वगस्स उ निक्खेवो होइनामनिप्फन्नो। सामण्णस्स चउक्को तेरसगो पुव्वयस्स भवे // 152 // | नियुक्ति: 153 |श्रमणश्राम्यतीति श्रमणः, (श्राम्यति तपस्यति) तद्भावः श्रामण्यम्, तस्य पूर्व-कारणं श्रामण्यपूर्वं तदेव श्रामण्यपूर्वकमिति निक्षेपाः। संज्ञायां कन्, श्रामण्यकारणंच धृतिः, तन्मूलत्त्वात्तस्य, तत्प्रतिपादकं चेदमध्ययनमिति भावार्थः / अतः श्रामण्यपूर्वकस्य तु / निक्षेपो भवति नामनिष्पन्नः, कोऽसौ?- अन्यस्याश्रुतत्त्वात् श्रामण्यपूर्वकमित्ययमेव, तुशब्दः सामान्यविशेषवन्नामविशेषणार्थः, श्रामण्यपूर्वकमिति सामान्यम्, श्रामण्यं पूर्वं चेति विशेषः, तथा चाह- श्रामण्यस्य चतुष्ककस्त्रयोदशकः पूर्वकस्य भवेन्निक्षेप इति गाथार्थः॥१५२॥ निक्षेपमेव विवृणोतिनि०-समणस्स उ निक्खेवो चउक्कओ होइ आणुपुव्वीए। दव्वे सरीरभविओ भावेण उ संजओसमणो॥१५३॥ 8 // 132 // श्रमणस्य तु तुशब्दोऽन्येषां च मङ्गलादीनामिह तु श्रमणेनाधिकार इति विशेषणार्थः, निक्षेपश्चतुर्विधो भवति, आनुपूर्व्या ®यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिः सुलभा / येऽधृतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं तेषाम् // 1 // 0 रूढनामेति। 0 नामनिष्पन्ननिक्षेपस्य।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy