________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 131 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् 4-5 उपनयशुद्धिः नियुक्तिः 150-151 स्थितपक्षः। ध्ययने क्रियारूपमेवेदमिच्छति, तदात्मकत्वादस्य,ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतेचेच्छतीति गाथार्थः // 149 // उक्तः क्रियानयः, इत्थं ज्ञाननयक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाहकिमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसंभवाद्, आचार्यः पुनराह-अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन् पुनराह नि०-सव्वेसिंपिनयाणंबहुविहवत्तव्वयं निसामेत्ता। तं सव्वनयविसुद्धं जंचरणगुणट्ठिओसाहू // 150 // सर्वेषा मिति मूलनयानामपिशब्दात्तद्भेदानां च द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य श्रुत्वा तत् सर्वनयविशुद्धं सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधुः यस्मात्सर्वनया एव(सर्वेऽपि नया)भावविषयं निक्षेपमिच्छन्तीति गाथार्थः॥ 150 // नि०-दुमपुप्फियनिजुत्ती समासओवणिया विभासाए। जिणचउद्दसपुव्वी वित्थरेण कहयंति से अटुं॥१५१॥ दुमपुष्फियनिजुत्ती समत्ता। सुगमा। इत्याचार्यश्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां द्रुमपुष्पिकाध्ययनं समाप्तम् / व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया। किञ्चित् सद्धर्मलाभमखिलं लभतां भव्यो जनस्तेन // 1 // ॥सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्तौ प्रथममध्ययनं द्रुमपुष्पिकाख्यं समाप्तमिति॥ // 131 //