SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीदश- | वैकालिक श्रीहारिक वृत्तियुतम् // 129 // ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे यतितव्यमेवे ति प्रथममध्ययन अनुस्वारलोपाद्यतितव्यम्, एवं-अनेन प्रक्रमेणैहिकामुष्मिकफलप्राप्त्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः / द्रुमपुष्पिका, सूत्रम् 4-5 इत्थं चैतदङ्गीकर्तव्यम्, सम्यगज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात्, तथा चान्यैरप्युक्तं- विज्ञप्तिः फलदा पुंसां, न क्रिया उपनयशुद्धिः फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तेरसंभवात् // 1 // तथाऽऽमुष्मिकफलप्राप्त्यर्थिनापि ज्ञात एव यतितव्यम्, तथा नियुक्तिः चागमोऽप्येवमेव व्यवस्थितः, यत उक्तं-पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही?, किंवा णाहिति / 149(1) ज्ञाननयः। छेयपावगं?, इतश्चैतदेवाङ्गीकर्त्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमःगीयत्थो य विहारो बीओ गीयत्थमीसिओ चेव। इत्तो तइयविहारो णाणुन्नाओ जिणवरेंहि॥१॥यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानंन प्रतिपद्यत इत्यभिप्रायः / एवं तावत्क्षायोपशमिकंज्ञानमधिकृत्योक्तम्, क्षायिकम(प्य)ङ्गीकृत्य विशिष्टफलसाधकत्वंतस्यैव विज्ञेयम्, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षांप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपिन तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम्, 'इति जो उवएसो सोणओणाम'ति इति एवमुक्तेन न्यायेन य उपदेशो- ज्ञानप्राधान्यख्यापनपरः स नयो नाम- ज्ञाननय इत्यर्थः, अयंच ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने ज्ञानरूपमेवेदमिच्छति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कार्यत्वात्तदायत्तत्वान्नेच्छति, गुणभूते चेच्छति इति गाथार्थः॥१४९(१)॥ उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः / अज्ञानी किं करिष्यति? किं वा ज्ञास्यति छेकपापकम् // 1 // 0 गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितश्चैव / इतस्तृतीयो विहारो नानुज्ञातो जिनवरैः // 1 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy