________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 128 // ज्ञाननयः। ऽवयवः, इदानीं नवममधिकृत्याह- वर्षातृणानि तस्य प्रतिषेधे इति, एतच्च भाष्यकृता प्राक् प्रपञ्चितमेवेति प्रतन्यत इति / प्रथममध्ययनं गाथार्थः // 147 / / उक्तो नवमोऽवयवः, साम्प्रतं चरममभिधित्सुराह द्रुमपुष्पिका, सूत्रम् 4-5 नि०- तम्हा उसुरनराणं पुज्जत्ता मंगलं सया धम्मो। दसमो एस अवयवो पइन्नहेऊ पुणोवयणं // 148 // उपनयशुद्धिः यस्मादेवं तस्मात् सुरनराणां देवमनुष्याणां पूज्यत इति पूज्यस्तद्भावस्तस्मात् पूज्यत्वात् मङ्गलं प्राग्निरूपितशब्दार्थं सदा नियुक्तिः 148 सर्वकालं धर्मः प्रागुक्तः, दशम एषोऽवयव इति सङ्ख्याकथनम्, किंविशिष्टोऽयमित्यत आह- प्रतिज्ञाहेत्वोः पुनर्वचनं पुनर्हेतु दशमं निगमनम्। प्रतिज्ञावचनमिति गाथार्थः॥१४८॥ उक्तं द्वितीयं दशावयवम्, साधनाङ्गता चावयवानां विनेयापेक्षया विशिष्टप्रतिपत्ति- नियुक्तिः जनकत्वेन भावनीयेति / उक्तोऽनुगमः, साम्प्रतं नया उच्यन्ते-ते च नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः 149(1) खल्वोघतः सप्त भवन्ति, स्वरूपं चैतेषामध आवश्यकसामायिकाध्ययने न्यक्षेण प्रदर्शितमेवातो नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतःप्रोच्यन्ते-ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात् तथा चाह नि०-णायंमि गिण्हियव्वे अगिण्हियव्वंमिचेव अत्थंमि / जइयव्वमेव इइ जो उवएसोसोनओ नामं // 149(1) // णायंमि त्ति ज्ञाते सम्यक्परिच्छिन्ने गिण्हियव्वे त्ति ग्रहीतव्य उपादेये अगिव्हियव्वंमि त्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दः खलुभयोर्ग्रहीतव्याग्रहीतव्ययोतित्वानुकर्षणार्थः उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व // 128 // व्यवहितः प्रयोगो द्रष्टव्यः- ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये चार्थे तु ज्ञात एव नाज्ञाते, अत्थंमि त्ति अर्थे / ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यःस्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयः तृणादिः, आमुष्मिको