________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 127 // गुणयुक्तत्वादिति भावना, दृष्टान्तप्रतिषेध इति विपक्षशब्दलोपाद्दृष्टान्तविपक्षप्रतिषेधः, किं?- षष्ठ एषोऽवयवः, तुर्विशेषणार्थः, किं विशिनष्टि?- सर्वोऽप्ययमनन्तरोदितः प्रतिज्ञादिविपक्षप्रतिषेधः पञ्चप्रकारोऽप्येक एवेति गाथार्थः॥ 145 // षष्ठमवयवमभिधायेदानीं सप्तमं दृष्टान्तनामानमभिधातुकाम आह नि०- अरिहंत मग्गगामी दिटुंतो साहुणोऽविसमचित्ता। पागरएसु गिहीसुएसंते अवहमाणा उ॥१४६॥ पूजामर्हन्तीत्यर्हन्तः, न रुहन्तीति वा अरुहन्तः, किं?- दृष्टान्त इति सम्बन्धस्तथा मार्गगामिन इति प्रक्रमात्तदुपदिष्टेन मार्गेण गन्तुं शीलं येषां त एव गृह्यन्ते, के च त इत्यत- आह- साधवः साधयन्ति सम्यग्दर्शनादियोगैरपवर्गमिति साधवः, तेऽपि दृष्टान्त इति योगः, किंभूताः?- समचित्ता रागद्वेषरहितचित्ता इत्यर्थः, किमिति तेऽपि दृष्टान्त इति?, अहिंसादिगुणयुक्तत्वात्, आह च- पाकरतेषु आत्मार्थमेव पाकसक्तेषु गृहिषु अगारिषु एषन्तेगवेषयन्ति पिण्डपातमित्यध्याहारः, किं कुर्वाणा इत्यत आह-अवहमाणा उनघ्नन्तोऽघ्नन्तः, तुरवधारणार्थः, ततश्चाघ्नन्त एव, आरम्भाकरणेन पीडामकुर्वाणा इत्यर्थः / एवं द्विविधोऽपिदृष्टान्त उक्तः, दृष्टान्तवाक्यं चेदम्, सतुसंस्कृत्य कर्त्तव्योऽर्हदादिवदिति गाथार्थः ॥१४६॥उक्तः सप्तमोऽवयवः, साम्प्रतमष्टममभिधित्सुराह नि०- तत्थ भवे आसंका उद्दिस्स जइवि कीरए पागो। तेण र विसमं नायं वासतणा तस्स पडिसेहे // 147 // तत्र तस्मिन् दृष्टान्ते भवेदाशङ्का भवत्याक्षेपः, यथा उद्दिश्य अङ्गीकृत्य यतीनपि संयतानपि, अपिशब्दादपत्यादीन्यपि, क्रियते निर्वय॑ते पाकः, कैः?- गृहिभिरिति गम्यते, ततः किमित्यत आह- तेन कारणेन, र इति निपातः किलशब्दार्थः, विषमं अतुल्यं ज्ञातं उदाहरणम्, वस्तुतः पाकोपजीवित्वेन साधूनामनवद्यवृत्त्यभावादिति, भावितमेवैतत् पूर्वम्, इत्यष्टमो प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् 4-5 उपनयशुद्धिः नियुक्तिः 146-147 सप्तमोदृष्टान्तः अष्टम आशङ्का नवमस्तत्प्रतिषेधः। // 127 //