________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 126 // वयवः। मायाविनः परव्यंसका इतियावत् अथवा उपदधातीत्युपधिः- वस्त्राद्यनेकरूपः परिग्रहः, तेन सह वर्त्तन्ते ये ते तथाविधा। प्रथममध्ययन महापरिग्रहा इत्यर्थः, वधन्तीति वधकाः- प्राण्युपमर्दकर्तारः, जइ तेऽवि नाम पुजंति त्ति यदीति पराभ्युपगमसंसूचकः, त इति द्रुमपुष्पिका, याज्ञिकाः, अपिः संभावने, नाम इति निपातो वाक्यालङ्कारार्थः, येऽजितेन्द्रियादिदोषदुष्टा यज्ञयाजिनो वर्त्तन्ते, यदि ते सूत्रम् 4-5 उपनयशुद्धिः नाम पूज्यन्ते तद्यग्निरपि भवेच्छीतः, नच कदाचिदप्यसौशीतोभवति, तथा वियदिन्दीवरस्रजोऽपिवान्ध्येयोरःस्थलशोभामाद- नियुक्तिः 145 धीरन्, न चैतद् भवति, यथैवमादिरत्यन्ताभावस्तथेदमपीति मन्यते, अथापि कालदौर्गुण्येन कथञ्चिदविवेकिना जनेन षष्ठो विपक्ष प्रतिषेधापूज्यन्ते तथापि तेषां न मङ्गलत्वसंप्रसिद्धिः, अप्रेक्षावतामतद्रूपेऽपि वस्तूनि तद्रूपाध्यारोपेण प्रवृत्तेः, तथाहि- अकलङ्कधियामेव प्रवृत्तिर्वस्तुनस्तद्वत्तां गमयति, अतथाभूते वस्तुनि तद्बुद्ध्या तेषामप्रवृत्तेः, सुविशुद्धबुद्धयश्च दैत्यामरेन्द्रादयः, ते चाहिंसादिलक्षणं धर्ममेव पूजयन्ति न यज्ञयाजिनः, तस्मादैत्यामरेन्द्रादिपूजितत्वाद्धर्म एवोत्कृष्टं मङ्गलं न याज्ञिका इति स्थितम्, हेउविभत्तीण त्ति एष हेतुतद्विभक्त्योः पडिसेहो त्ति विपक्षप्रतिषेधः, विपक्षशब्द इहानुक्तोऽपि प्रकरणाज्ज्ञातव्य इति गाथार्थः॥१४४॥एवं हेतुतच्छुद्ध्योर्विपक्षप्रतिषेधो दर्शितः, साम्प्रतं दृष्टान्तविपक्षप्रतिषेधं दर्शयन्नाह नि०- बुद्धाई उवयारे पूयाठाणं जिणा उसब्भावं। दिटुंते पडिसेहो छट्ठो एसो अवयवो उ॥१४५॥ बुद्धादयः आदिशब्दात्कपिलादिपरिग्रहः, उपचार इति सुपां सुपो भवन्तीति न्यायादुपचाारेण किञ्चिदतीन्द्रियं कथयन्तीति कृत्वा न वस्तुस्थित्या पूजायाः स्थानं पूजास्थानम्, जिनास्तु सद्भावं परमार्थमधिकृत्येति वाक्यशेषः सर्वज्ञत्वाद्यसाधारण वध हिंसायामित्यन्यपठितधातुगणापेक्षयाऽयं प्रयोगः, अगणपठितं वधिं हिंसार्थमाश्रित्य स्यात्परं तत्रात्मनेपदसम्भवः, यदि च तेषामर्थान्तरेऽपि अनियमस्त्यादीन् प्रतीत्यपेक्ष्य स्यात्परस्मैपदिता तदा तत्रापि न दोषः / // 126 //