SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 123 // द्वयोः पूरणं द्वितीयं द्वितीयं च तद्द्यं च द्वितीयद्वयं- हेतुस्तच्छुद्धिश्च, इदं च प्रागुक्तद्वयापेक्षया द्वितीयमुच्यते, तस्यायं विपक्षः- प्रथममध्ययन इह सुरैः पूज्यन्ते यज्ञयाजिनोऽपीति, इयमत्र भावना- यज्ञयाजिनो हि मङ्गलरूपान भवन्त्यथ च सुरैः पूज्यन्ते ततश्च सुरपूजित-8 द्रुमपुष्पिका, सूत्रम् 4-5 त्वमकारणमिति, एष हेतुविपक्षः, तथा अजितेन्द्रियाः सोपधयश्च यतस्ते वर्तन्ते अतोऽनेनैव ग्रन्थेन 'धर्मस्थाने स्थिताः परम उपनयशुद्धिः इत्यादिकाया हेतुविभक्तेरपि विपक्ष उक्तो वेदितव्य इति / उदाहरणविपक्षमधिकृत्याह- बुद्धादयोऽप्यादिशब्दात्कपिलादि- नियुक्ति: 141 परिग्रहः,ते किं?-सुरनता देवपूजिता उच्यन्ते भण्यन्ते तच्छासनप्रतिपन्नैरिति ज्ञातप्रतिपक्ष इति गाथार्थः॥१४१॥आह- ननु पञ्चमोवि पक्षावयवः। दृष्टान्तमुपरिष्टाद्वक्ष्यति, एततश्च तत्स्वरूप उक्ते तत्रैव विपक्षस्तत्प्रतिषेधश्चवक्तुंयुक्त: तत्किमर्थमिह विपक्षः तत्प्रतिषेधश्चाभिधीयते?,उच्यते, विपक्षसाम्यादधिकृत एव विपक्षद्वारे लाघवार्थमभिधीयते, अन्यथेदमपि पृथग्द्वारस्यात्, तथैव तत्प्रतिषेधोऽपि द्वारान्तरं प्राप्नोति, तथा च सति ग्रन्थगौरवं जायते, तस्माल्लाघवार्थमत्रैवोच्यत इत्यदोषः / आह-दिट्ठतो आसंका तप्पडिसेहो त्ति वचनात् उत्तरत्र दृष्टान्तमभिधाय पुनराशङ्कां तत्प्रतिषेधं च वक्ष्यत्येव, तदाशङ्का च तद्विपक्ष एव, तत् किमर्थमिहल पुनर्विपक्षप्रतिषेधावभिधीयेते?, उच्यते, अनन्तरपरम्पराभेदेन दृष्टान्तद्वैविध्यख्यापनार्थम्, यः खल्वनन्तरमुक्तोऽपि परोक्षत्वादागमगम्यत्वाद्दार्टान्तिकार्थसाधनायालं न भवति तत्प्रसिद्धये चाध्यक्षसिद्धो योऽन्य उच्यते स परम्परादृष्टान्तः, तथा च तीर्थकरांस्तथा साधूंश्च द्वावपि भिन्नावेवोत्तरत्र दृष्टान्तावभिधास्येते, तत्र तीर्थकृल्लक्षणं दृष्टान्तमङ्गीकृत्येह विपक्षप्रतिषेधावुक्ती, साधूंस्त्वधिकृत्य तत्रैवाशङ्कातत्प्रतिषेधौ दर्शयिष्यते इत्यदोषः / स्यान्मतं- प्रागुक्तेन विधिना लाघवार्थमनुक्ते एव दृष्टान्ते उच्यतां कामम्, इहैव दृष्टान्तविपक्षस्तत्प्रतिषेधश्च, स एव दृष्टान्तः किमित्युत्तरत्रोपदिश्यते? येन हेतुविभक्तेरनन्तरमिहैव (c) दृष्टान्त आशङ्का तत्प्रतिषेधः। // 123 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy