SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 124 // न भण्यते, तथाहि- अत्र दृष्टान्ते भण्यमाने प्रतिज्ञादीनामिव द्विरूपस्यापि दृष्टान्तस्यार्हत्साधुलक्षणस्य एतावेव विपक्षतत्प्रतिषेधावुपपद्येते, ततश्च साधुलक्षणस्य दृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग् वक्तव्यौ भवतः, तथा च सति ग्रन्थलाघवंजायते, तथा प्रतिज्ञाहेतूदाहरणरूपाः सविशुद्धिकास्त्रयोऽप्यवयवाः क्रमेणोक्ता भवन्तीति, अत्रोच्यते, इहाभिधीयमाने दृष्टान्तस्येव प्रतिज्ञादीनामपि प्रत्येकमाशङ्कातत्प्रतिषेधौ वक्तव्यौ स्तः, तथा च सत्यवयवबहुत्वम्, दृष्टान्तस्य वा प्रतिज्ञादीनामिव विपक्षतत्प्रतिषेधाभ्यां पृथगाशङ्कातत्प्रतिषेधौ न वक्तव्यौ स्याताम्, एवं सति दशावयवा न प्राप्नुवन्ति, दशावयवं चेदं वाक्यं भङ्गन्यन्तरेण प्रतिपिपादयिषितम्, अस्यापि न्यायस्य प्रदर्शनार्थम्, अत एव यदुक्तं साधुलक्षणदृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग्वक्तव्यौ स्यातामित्यादि तदपाकृतं वेदितव्यम्, इत्यलं प्रसङ्गेन / एवं प्रतिज्ञादीनां प्रत्येकं विपक्षोऽभिहितः, अधुनाऽयमेव प्रतिज्ञादिविपक्षः पञ्चमोऽवयवो वर्तत इत्येतद्दर्शयन्निदमाह___ नि०- एवं तु अवयवाणं चउण्ह पडिवक्खुपंचमोऽवयवो। एत्तो छट्ठोऽवयवो विवक्खपडिसेहतं वोच्छं // 142 // एवं इत्ययम्, एव(वं)कार उपप्रदर्शने, तुरवधारणे, अयमेव अवयवानां प्रमाणाङ्गलक्षणानां चतुर्णां प्रतिज्ञादीनां प्रतिपक्षो विपक्षः, पञ्चमोऽवयव इति, आह- दृष्टान्तस्याप्यत्र विपक्ष उक्त एव, तत्किमर्थं चतुर्णामित्युक्तं?, उच्यते, हेतोः सपक्षविपक्षा-8 भ्यामनुवृत्तिव्यावृत्तिरूपत्वेन दृष्टान्तधर्मत्वात्, तद्विपक्ष एव चास्यान्तर्भावाददोष इति। उक्तः पञ्चमोऽवयवः, षष्ठ उच्यते, तथा चाह- इत उत्तरत्र षष्ठोऽवयवो विपक्षप्रतिषेधस्तं वक्ष्ये अभिधास्य इतिगाथार्थः॥१४२॥ इत्थं सामान्येनाभिधायेदानीमाद्यद्वयविपक्षप्रतिषेधमभिधातुकाम आह नि०- सायं संमत्तं पुमं हासंरइ आउनामगोयसुहं। धम्मफलं आइदुगे विवक्खपडिसेह मो एसो॥१४३॥ प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् 4-5 उपनयशुद्धिः नियुक्तिः 142-143 दशावयवेपञ्चमषष्ठीविपक्षविपक्षप्रतिषेधावयवौ। // 124 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy