SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 120 // | नियुक्तिः 136 कार: साधयन्त्यपवर्गमिति साधवः, यतश्चैवंततःसाधव एव भण्यन्ते साधवो, न चरकादय इति, निगमनं चैतदिति गाथार्थः॥१३६॥ प्रथममध्ययन इत्थमुक्तं दशावयवम्, प्रयोगं त्वेवं वृद्धा दर्शयन्तिअहिंसादिलक्षणधर्मसाधकाः साधव एव, स्थावरजङ्गमभूतोपरोधपरि- द्रुमपुष्पिका, सूत्रम् 4-5 हारित्वात्, तदन्यैवंविधपुरुषवत्, विपक्षो दिगम्बरभिक्षुभौतादिवत्, इह येस्थावरजङ्गमभूतोपरोधपरिहारिणस्ते उभयप्रसिद्धैवं | उपनयशुद्धिः विधपुरुषवदहिंसादिलक्षणधर्मसाधका दृष्टाः, तथा च साधवः स्थावरजङ्गमभूतोपरोधपरिहारिण इत्युपनयः, तस्मात्स्थावर | निगमनंजङ्गमभूतोपरोधपरिहारित्वात्तेऽहिंसादिलक्षणधर्मसाधकाः साधव एवेति निगमनम्, पक्षादिशुद्धयस्तु निदर्शिता एवेति न तच्छुद्धिश्च। प्रतन्यन्ते॥१३६॥ एवमर्थाधिकारद्वयवशात् पञ्चावयवदशावयवाभ्यां वाक्याभ्यां व्याख्यातमध्ययनमिदम्, इदानीं भूयोऽपि नियुक्तिः 137 भङ्गयन्तरभाजा दशावयवेनैव वाक्येन सर्वमध्ययनं व्याचष्टे नियुक्तिकारः दशावयवाः। नि०-ते उ पइन्न विभत्ती हेउ विभत्ती विवक्खपडिसेहो। दिलुतो आसंका तप्पडिसेहो निगमणं च // 137 / / ते इति अवयवाः, तुः पुनःशब्दार्थः, ते पुनरमी प्रतिज्ञादयः-तत्र प्रतिज्ञानं प्रतिज्ञा- वक्ष्यमाणस्वरूपेत्येकोऽवयवः, तथा / विभजनं विभक्तिः- तस्या एव विषयविभागकथनमिति द्वितीयः, तथा हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्तृतीयः, तथा विभजनं विभक्तिरिति पूर्ववच्चतुर्थः, तथा विसदृशः पक्षो विपक्षः साध्यादिविपर्यय इति पञ्चमः, तथा प्रतिषेधनं प्रतिषेधः विपक्षस्येति गम्यते इत्ययं षष्ठः, तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तमः, तथा आशङ्कनमाशङ्का प्रक्रमाद् दृष्टान्तस्यैवेत्यष्टमः, तथा तत्प्रतिषेधः अधिकृताशङ्काप्रतिषेध इति नवमः, तथा निश्चितं गमनं निगमनं निश्चितोऽवसायल इति दशमः, चशब्द उक्तसमुच्चयार्थ इति गाथासमासार्थः // 137 ॥व्यासार्थं तु प्रत्यवयवं वक्ष्यति ग्रन्थकार एव, तथा चाह // 120 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy