SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 119 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् 4-5 उपनयशुद्धिः नियुक्तिः 134-135 निगमनंतच्छुद्धिश्च। प्रयत्नकरणलक्षणांन मन्यन्ते(मुणन्ति) न जानन्ति न मन्वते वा तथाविधागमाश्रवणात्, न कुर्वन्ति, परिज्ञानाभावात्, भावितमेवेदमधस्तादिति गाथार्थः // 133 // किंच नि०- न य उग्गमाइसुद्धं भुंजंती महुयरा वऽणुवरोही। नेव य तिगुत्तिगुत्ता जह साहू निच्चकालंपि॥१३४॥ न चोद्गमादिशुद्धं भुञ्जते, आदिशब्दादुत्पादनादिपरिग्रहः, मधुकरा इव भ्रमरा इव सत्त्वानामनुपरोधिनः सन्तो, नैव च त्रिगुप्तिगुप्ताः, यथा साधवो नित्यकालमपि, एतदुक्तं भवति- यथा साधवो नित्यकालं त्रिगुप्तिगुप्ता एवं ते न कदाचिदपि, तत्परिज्ञानशून्यत्वात्, तस्मान्नैते साधव इति गाथार्थः // 134 // साधव एव तु साधवः, कथं?, यतः नि०- कायं वायंच मणंच इंदियाइंच पंच दमयंति। धारेंति बंभचेरं संजमयंति कसाए य॥१३५॥ कायं वाचं मनश्चेन्द्रियाणि च पञ्च दमयन्ति, तत्र कायेन सुसमाहितपाणिपादास्तिष्ठन्ति गच्छन्ति वा, वाचा निष्प्रयोजनं न ब्रुवते प्रयोजनेऽप्यालोच्य सत्त्वानुपरोधेन, मनसा अकुशलमनोनिरोधं कुशलमनउदीरणंच कुर्वन्ति, इन्द्रियाणि पश्चदमयन्ति इष्टानिष्टविषयेषु रागद्वेषाकरणेन, पञ्चेति साङ्ख्यपरिकल्पितैकादशेन्द्रियव्यवच्छेदार्थम्, तथा च वाक्पाणिपादपायूपस्थमनांसीन्द्रियाणि तेषामिति, धारयन्ति ब्रह्मचर्यम्, सकलगुप्तिपरिपालनात्, तथा संयमयन्ति कषायाँश्च, अनुदयेनोदयविफलीकरणेन चेति गाथार्थः // 135 // नि०-जंच तवे उजुत्ता तेणेसिं साहुलक्खणं पुण्णं / तो साहुणो त्ति भण्णति साहवो निगमणं चेयं // 136 // यच्च तपसि प्राग्वर्णितस्वरूपे, किं?- उद्युक्ता उद्यताः तेन कारणेनैषां साधुलक्षणं पूर्णं अविकलम्, कथं?- अनेन प्रकारेण (r) यथा साधवोऽनुपरोधिनः सन्तो भ्रमरा इव उद्गमादिशुद्धं भुञ्जते न तथा ते चरकादयः न च त्रिगुप्तिगुप्ता यथा साधवः / // 119 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy