________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् | // 115 // उक्तः, साम्प्रतं संज्ञासिद्ध्या अभिधातुकाम आह प्रथममध्ययन नि०- सन्नासिद्धिं पप्पा विहंगमा होंति पक्खिणो सव्वे। इहइं पुण अहिगारो विहासगमणेहि भमरेहिं // 122 // द्रुमपुष्पिका, सूत्रम् 3 संज्ञानं संज्ञा नाम रूढिरिति पर्यायाः तया सिद्धिः संज्ञासिद्धिः, संज्ञासम्बन्ध इतियावत् , तां संज्ञासिद्धिं प्राप्य आश्रित्य, आहारग्रहणकिं?-विहे गच्छन्तीति विहङ्गमा भवन्ति, के?- पक्षा येषां सन्ति ते पक्षिणः, सर्वे समस्ता हंसादयः, पुद्गलादीनां विहङ्गमत्वे विधिः नियुक्तिः सत्यप्यमीषामेव लोके प्रतीतत्वात्, इत्थमनेकप्रकारविहङ्गममभिधाय प्रकृतोपयोगमुपदर्शयति- इह सूत्रे, पुनःशब्दोऽवधारणे, 122-124 इहैव नान्यत्र अधिकारः प्रस्तावः प्रयोजनम्, कैरित्याह- विहायोगमनैः आकाशगमनैः भ्रमरैः षट्पदैरिति गाथार्थः॥१२२॥ संज्ञासिद्ध्या___नि०- दाणेति दत्तगिण्हण भत्ते भज सेव फासुगेण्हणया। एसणतिगंमि निरया उवसंहारस्स सुद्धि इमा॥१२३॥ भावविहङ्ग मस्वरूपः। दानेति सूत्रे दानग्रहणं दत्तग्रहणप्रतिपादनार्थम्, दत्तमेव गृह्णन्ति, नादत्तम्, भक्त' इति भक्तग्रहणं भज सेवायां इत्यस्य निष्ठान्तस्य भवति, अर्थश्चास्य प्रासुकग्रहणम्, प्रासुकं- आधाकर्मादिरहितं गृह्णन्ति, नेतरदिति, एसण त्ति एषणाग्रहणम्, एषणात्रितये गवेषणादिलक्षणे निरताः सक्ताः, उपसंहारस्य- उपनयस्य शुद्धिः इयं वक्ष्यमाणलक्षणेति गाथार्थः // 123 // नि०- अविभमरमहुयरिंगणा अविदिन्नं आवियंति कुसुमरसं। समणा पुण भगवन्तो नादिन्नं भोत्तुमिच्छंति // 124 // अपि भ्रमरमधुकरीगणा, मधुकरीग्रहणमिहापि स्त्रीसंग्रहार्थम्, जातिसंग्रहार्थमिति चान्ये, अविदत्तं सन्तम्, किं?-आपिबन्ति छ कुसुमरसंकुसुमासवम्, श्रमणाः पुनर्भगवन्तो नादत्तं भोक्तुमिच्छन्तीति विशेष इति गाथार्थः॥१२४॥ साम्प्रतं सूत्रेणैवोपसंहारविशुद्धिरुच्यते-कश्चिदाह- 'दाणभत्तेसणे रया' इत्युक्तम्, यत एवमत एव लोको भक्त्याकृष्टमानसस्तेभ्यः प्रयच्छत्याधाकर्मादि, अस्य ग्रहणे सत्त्वोपरोधः, अग्रहणे स्ववृत्त्यलाभ इति, अत्रोच्यते // 115 //