________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 114 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् 3 आहारग्रहण विधिः नियुक्ति: 121 भावविहङ्गम स्वरूपः। नि०- चलनं कम्मगइंखलु पडुच्च संसारिणो भवे जीवा। पोग्गलदव्वाइंवा विहंगमा एस गुणसिद्धी // 121 // चलनं-स्पन्दनम्, तेन कर्मगतिर्विशेष्यते, कथं?- चलनाख्या या कर्मगतिःसा चलनकर्मगतिः, एतदुक्तं भवति-कर्मशब्देन क्रियाऽभिधीयते, सैवगतिशब्देन सैवचलनशब्देन च। तत्र गतेर्विशेषणं क्रिया क्रियाविशेषणंचलनम्। कुतः?- व्यभिचाराद्, इह गतिस्तावन्नरकादिका भवति अतः क्रियया विशेष्यते, क्रियाऽप्यनेकरूपा भोजनादिका ततश्चलनेन विशेष्यते, अतश्चलनाख्या कर्मगतिश्चलनकर्मगतिस्ताम्, अनुस्वारोऽलाक्षणिकः, खलुशब्द एवकारार्थः, स चावधारणे, चलनकर्मगतिमेव, न विहायोगतिम्, प्रतीत्य आश्रित्य, किं?-संसरणं संसारः, संसरणंज्ञानावरणादिकर्मयुक्तानांगमनम्, स एषामस्तीति संसारिणः, अनेन सिद्धानां व्युदासः, भवे इति, अयं शब्दो भवेयुरित्यस्यार्थे प्रयुक्तः, जीवा उपयोगादिलक्षणाः। ततश्चायं वाक्यार्थःचलनकर्मगतिमेव प्रतीत्य संसारिणो भवेयुर्जीवा विहङ्गमा इति, विहं गच्छन्ति-चलन्ति सर्वैरात्मप्रदेशैरिति विहङ्गमाः। तथा पुद्गलद्रव्याणि वेत्यादि, पूरणगलनधर्माणः पुद्गलाः, पुद्गलाश्च ते द्रव्याणि च तानि पुद्गलद्रव्याणि, द्रव्यग्रहणं विप्रतिपत्तिनिरासार्थम्, तथा चैते पुद्गलाः कैश्चिदद्रव्याः सन्तोऽभ्युपगम्यन्ते, 'सर्वे भावा निरात्मानः' इत्यादिवचनाद्, अतः पुद्गलानां परमार्थसद्रूपताख्यापनार्थं द्रव्यग्रहणम् , वाशब्दो विकल्पवाची, पुद्गलद्रव्याणि वा संसारिणो वा जीवा विहङ्गमा इति / तत्र जीवानधिकृत्यान्वर्थो निदर्शितः, पुद्गलास्तु विहं गच्छन्तीति विहङ्गमाः, तच्च गमनमेषां स्वतः परतश्च संभवति, अत्र स्वतः परिगृह्यते, विहङ्गमा इति च प्राकृतशैल्या जीवापेक्षया वोक्तम्, अन्यथा द्रव्यपक्षे विहङ्गमानीति वक्तव्यम्, एषभावविहङ्गमः, 8 कथं?- गुणसिद्ध्या अन्वर्थसम्बन्धेन, प्राकृतशैल्या वाऽन्यथोपन्यास इतिगाथार्थः ॥१२१॥एवं गुणसिद्ध्या भावविहङ्गम 0 पुद्गलद्रव्याणां नपुंसकत्वादत्र पुंस्त्वनिर्देशः प्राकृतत्वात् / ॐ तृतीयायां प्रथमेति। // 114 //