SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 113 // प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् 3 आहारग्रहणविधिः नियुक्ति: 120 भावविहङ्गम स्वरूपः। भाषिकम्, क्रिया वा, कर्म च तद्गतिश्चासौ कर्मगतिः, गमनं गच्छत्यनया वेति गतिः, तत्र भावगतिं प्राप्य अस्तिकायास्तु इति अत्र भावगतिः पूर्ववत्तां प्राप्य- अभ्युपगम्याश्रित्य, किं? 'अस्तिकायास्तु' धर्मादयः, तुशब्द एवकारार्थः,स चावधारणे, तस्य च व्यवहितः प्रयोगः, भावगतिमेव प्राप्य न पुनः कर्मगतिम्, सर्वे विहङ्गमाः खलु सर्वे- चत्वारः नाकाशमाधारत्वात्, 'विहङ्गमा इति' विहं गच्छन्त्यवतिष्ठन्ते स्वसत्तां बिभ्रतीति विहङ्गमाः, खलुशब्दोऽवधारणे, विहङ्गमा एव, न कदाचिन्न विहङ्गमा इति।कर्मगतेःप्राग्निरूपितशब्दार्थायाः, किं?-इमौ भेदौवक्ष्यमाणलक्षणाविति गाथार्थः॥ 119 // तावेवोपदर्शयन्नाह नि०-विहगगई चलणगई कम्मगई उसमासओ दुविहा। तदुदयवेययजीवा विहंगमा पप्प विहगगई॥१२०॥ इह गम्यतेऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिभिरिति गतिः, विहायसि- आकाशे गतिर्विहायोगतिः, कर्मप्रकृतिरित्यर्थः, तथा चलनगतिरिति, चलिरयं परिस्पन्दने वर्त्तते, चलनं स्पन्दनमित्येकोऽर्थः, चलनं च तद्गतिश्च सा चलनगतिःगमनक्रियेति भावः / कर्मगतिस्तु समासतो द्विविधेत्यत्र तुशब्द एवकारार्थः, स चावधारणे, कर्मगतिरेव द्विविधा न भावगतिः, तस्या एकरूपत्वेन व्याख्यातत्वात्, तत्र तदुदयवेदकजीवा इति, अत्र तदित्यनेनानन्तरनिर्दिष्टां विहायोगतिं निर्दिशति, तस्याविहायोगतेः उदयस्तदुदयो विपाक इत्यर्थः, तथा वेदयन्ति-निर्जरयन्ति उपभुञ्जन्तीति वेदकास्तदुदयस्य वेदकाश्च ते जीवाश्चेति समासः, आह-तदुदयवेदका जीवा एव भवन्तीति विशेषणानर्थक्यम्, न, जीवानां वेदकत्वावेदकत्वयोगेन सफलत्वात्, अवेदकाच सिद्धा इति / विहङ्गमाः प्राप्य विहायोगति मिति अब विहे विहायोगतेरुदयादुद्गच्छन्तीति विहङ्गमाः, 'प्राप्य' आश्रित्य,किं प्राप्य?-'विहायोगति' विहायोगतिरुक्ता ताम्, विपर्यस्तान्यक्षराण्येवं तु द्रष्टव्यानि-विहायोगतिं प्राप्य तदुदयवेदकजीवा विहङ्गमा इति गाथार्थः॥१२०॥ अधुना द्वितीयकर्मगतिभेदमधिकृत्याह
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy